Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
४
माला
श्रीचम्पकला रजनीमभिलक्ष्य गगनलक्ष्मीरपि सन्ध्यारागच्छलेनाङ्गरागमिव नितरामशोभत । यस्यैकदा खलूदयो जायते तस्यान्यदाऽव- लाचरित्रम.
श्यमस्तमपि जायत एवेति सूचयन्निव तत्र समये दिवसमणिरपि शनैःशनैरस्ताचलशिर आरुरोह । अस्तमितं दिवानायकमालोक्य तद्वियोगदुःखमसहमाना विहगा अपि परितचुक्रुशुः । जगदाहादकारिणि भानावस्तङ्गते चौरवल्लोकापकारीगाढान्धकारः सर्वासु दिक्षु नितरां प्रससार । तदा तत्कालमेव प्रेयांसं सहस्रांशुमस्तमुपेयिवांसमालोक्य तदीयविरहखिन्नाः कमलिन्यः सुषमोज्झिताः सत्य इव मम्लुः।
अथ सायन्तनी क्रियामशेषां विधिवद्विधाय विक्रमादित्यो महीजानिरन्तःपुरमागत्य शय्यामलङ्कृतवान् । तत्र वारविलासिनीगणैरुपचरितोऽपि मनसि सदसि पण्डितोक्तस्त्रीचरित्रगोचरोपायं विमृशन् मनागपि निद्रामलभमानः सोचिन्तयत्-यदुक्तं सभायां तेन विपश्चिता स्त्रीचरित्रं ज्ञातुं महतामपि दुष्करमस्तीति तत्कतिविधमस्ति, कथं वा तदहं ज्ञास्यामि ? अथवा मादृशां पुंसां तदवलोकनादि नो युज्यते । यतः ‘खला एव परेषां छिद्राणि द्रष्टुमीहन्ते, शिष्टास्तु ततो विमुखा एव भवन्ति । तदुक्तम्गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्वं, परं कण्ठे नियच्छति ॥ ४ ॥
व्याख्या-यथा खलु ईश्वरो महेश्वरः समुद्रमन्थनादत्थितं चन्द्रमसं शिरस्यधत्त, सकललोकपराभवदायिनं | गरलं विषन्तु कण्ठमध्य एवातिष्ठिपत् । बुधः सज्जनो जनः परेषां गुणदोषौ गृह्णन् पश्यन् गुणं शिरसा श्लाघते-स्तौति, दोषन्तु कण्ठ एव स्थापयते, कदाचिदपि नैवोदघाटयते ।
॥५॥
Jain Education
a
l
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94