Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
नमालिङ्गय सुखिनी भवानि । यथाऽमुष्य दर्शनादुमे नयने साफल्यमयाश्चक्राते । तथैतदङ्गस्पर्शादङ्गमपि मामकं कदा सफलीभविष्यति ?, इत्थं विचियन्ती तमेव पुमांसमेकाग्रमनसा पश्यन्ती सा राज्ञी तस्मिन्नलक्ष्यतामुपगतेऽपि यन्मार्गेण गतवान् , तमेव पन्थानं विलक्षभावेन विलोकितुं लग्ना । पुनः क्षणान्तरादेव सावधानहृदया सा मनस्येवं चिन्तितुं लग्ना-यदहमेतत्पुंसायोगमन्तरा क्षणमपि जीवितुं नैव शक्नोमि, अतएव मदीयजीवितधारकीभूतस्यामुष्य पुंसो गाढाश्लेषं यथाऽऽप्नुयां तथा मया यतितव्यम् । यतः 'स्वप्राणधारणाय यः खल्वालस्यं विधत्ते, विलम्बयति वा स प्रान्ते महाकष्टमामोति ।' अतो ममैतदर्थसाधने विलम्बकरणमनर्थकार्येव स्यात् । इत्यवधार्य सा तरुणी तस्मै धनवते सार्थवाहाय स्वाभिप्रायं बोधयितुं निस्त्रपाऽकुतोभया तदैवैकस्मिन् पत्रे श्लोकयुगलमिदमलेखीत्" नाथ ! प्रदोषसंरुद्धसञ्चारा पद्मसद्मगा। भृङ्गी समीहते चिन्ता व्याप्ता मित्र ! तवागमम्” ॥१॥
व्याख्या हे नाथ ! प्रदोषे सायङ्काले संरुद्धः सञ्चारो गमनं यस्याः सा निशावरुद्धगमना, पुनः पद्मानां कमलानां सदने गता प्राप्ता, अतएव चिन्ताव्याप्ता=चिन्ताकुला भृङ्गी मित्र :-सूर्य ! तवागमनं समीहते-कामयते, पक्षे काचिन्नायिका पुरुषान्तरं निगदति-नाथ ! यथा निषिद्धनैशिकगमना, कमलभवनगता, चिन्ताकुला, भृङ्गी स्वश्रेयसे सूर्य वाञ्छति, तथाहं सदने निरुद्धाऽतिमदनदहनदग्धीकृताशेषगात्रा, त्वामेव किलैच्छामि । | " तदुपेक्षां भवान् भास्वन् ! ,कर्ता चेत्तदभाग्यतः।हताशाऽन्तसंयोगं तदा सा लप्स्यते ध्रुवम् ॥२॥
Jain Education Meena
For Personal & Private Use Only
mjainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94