Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 28
________________ चरित्रम् श्रीचम्पकानो भवन्ति, सर्वे पुरुषा अपि गाढस्नेहा नैव जायन्ते । यस्मादेकजातीयेष्वपि सांसर्गिकमन्तरं प्रत्यक्षमेव लक्ष्यते । यतःमाला ___ आलिङ्गत्यन्यमन्यं रमयति वचसा वीक्षते चान्यमन्यं, ॥१४॥ रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते । शेते चान्येन सार्द्ध शयनमुपगता चिन्तयत्यन्यमन्यं, स्त्री वामेयं प्रसिद्धा जगति बहुमता केन धृष्टेन सृष्टा ॥ १५॥ व्याख्या-या स्त्री अन्यं पुरुषमालिङ्गति । श्लिष्यति, पुनरन्यमपरं वचसा-मधुरालापेन रमयति-क्रीडयति, च पुनरन्यमन्यं वीक्षते-विलोकते, अन्यस्य हेतोरन्येनैव हेतुना रोदिति-क्रन्दति, शपथैस्तत्करणेनाऽन्यं कलयति-ब्रूते, अन्यश्च वृणीते-स्वीकुरुते, अन्येन च साधू शेते-स्वपिति, शयनमुपगता-शय्यां प्राप्ता सती याऽन्यमन्यमेव चिन्तयति-ध्यायति, सेयं वामा स्त्री प्रतिकूला जगति लोके प्रसिद्धा वहुमता-सर्वैरादृता केन धृष्टेन-विवेकविकलेन पुंसा सृष्टा-निरमायीति नो विद्म।। एतच्छ्रुत्त्वा राज्ञी जगौ-सजन ! भवदुक्तिर्यद्यपि साधीयसी विद्यते, तथापि सर्वाः स्त्रिय एकाकारा नैव सन्ति, न वा पुरुषा एव सर्वे समाना जायन्ते, कियन्तश्च पुरुषा वज्रसोदरकठोरतरहृदया दृश्यन्ते, अमी खलु मन्तुमन्तरैव स्वीयप्राणप्रिया प्राणापहर्त्तारो भवन्ति । कियत्यः स्त्रियोऽपि स्वप्राणप्रियस्य वियोगं सोढुमसोढाः सत्यो भवन्ति । यतश्च जाज्वल्यमानमहाज्बालायां चितायां पतित्वा कृतभस्मसादात्मनः कियत्यः स्त्रियो जगति दरीदृश्यन्ते । अतः सर्वाः स्त्रियस्तादृश्यः प्रेमयुक्ता ॥१४॥ Jain Education a l For Personal & Private Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94