Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram Author(s): Yatindrasuri, Publisher: Rajenda Pravachan Karyalay View full book textPage 7
________________ माविषयिणीमतिदुर्गमा चचा एवं शनाऽखादिविषयिणाम दृशीं नृपोक्तिमाकण्य मुलका शस्त्रजाः शास्त्रजास्तथा कलाविषयिणीमतिदुर्गमां चर्चा कुर्वन्तः क्षितिपति सभ्याञ्जनांश्च मोदयन्ति स्म । अपरे विद्वद्वरास्तर्ककर्कसतत्त्वविचारणया समग्रसभ्यान् रञ्जयन्तः शुशुभिरे । एवं शस्त्रास्त्रादिविषयिणीमतिविषमां विचारणां शृण्वन् राजोचिवान्-'भो भोः पण्डिताः! यूयं कथयत, यदहं कां विषमां कलां नो विजानामीति ? ।' ईदृशीं नृपोक्तिमाकर्ण्य मुख्याः सभ्या ऊचिरे । स्वामिन् ! | याः कलाः सुरगुरुदैत्याचार्यो वा नो वेत्ति, ता अपि विषमाः कला भवान् वेद, किश्चात्र लोके शस्त्रजाः शास्त्रजास्तथा बुद्धि-ल l कल्पिताः सकला अपि कला भवदन्तष्करणे सुखेन निवसन्तितमाम् । इत्याकलय्य कश्चित्पटीयान् सुविद्वान् शिशिरे काले | | शिरस्यभिषिक्तो नर इव शिरः कम्पयन्नवसरोचितां गिरं जजल्प-राजन् ! अमी सकला अपि पण्डिताः सत्यं नैव निगदन्ति, केवलं मधुरालापसंलापेन ड्रमतं मन एव रञ्जयन्ति । यतःअवास्तवैर्वास्तवैर्वा, संस्तवैः संस्तवैषिणः। ये प्रियोक्तिप्रियान् नाथान् , रञ्जयन्ति जयन्ति ते॥१॥ व्याख्या सम्यक्स्तोतुमिच्छन्ति स्वामिनमिति यावत , ईदृशाः स्वामिस्तुतिकर्तारो जनाः, प्रियोक्तिप्रियान्मधुरालापमात्रतुष्टान् नाथान-स्वामिनः वास्तवैर्यथाथैः, अवास्तवैरयथाथैः, संस्तवैः स्तोत्रः-प्रशंसनैर्ये रज्जयन्ति मोदयन्ति ते जना एव जयन्ति । अतः जलार्थी चातको नीरदमिवैते धनार्थिनो विद्वांसो मधुरोक्त्या भवन्तं रञ्जयन्ति, तत्त्वं किमपि न विमृशन्ति । देव ! सत्यं पृच्छसि चेदहं वाचालतया तदुत्तरं समुचितं ददामि । यतः-'वाचालं विहाय कोऽप्यन्यः क्षितिपतेरुत्तरं है दातुं नैव शक्नुयात् ।' प्रभो ! सकला अपि कला भवान् वेत्ति, तत्र नास्ति सन्देहस्तथापि स्त्रीणां चारित्र्यकलायामनभिज्ञता Jain Education For Persona & Private Use Only I ntrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 94