Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 429
________________ Jain Education कायोत्सर्ग इत्यादि हेतुः सम्भाव्यः, पारयित्वा च तस्याः स्तुतिं पठति 'सुअदेवया भगवई' इत्यादि, अन्येन दीयमानां वा शृणोति । एवं क्षेत्रदेवताया अपि स्मृतिर्युक्तेति तस्याः कायोत्सर्गानन्तरं तस्या एव स्तुतिं भणति, यच्च प्रत्यहं क्षेत्रदेवतायाः स्मरणं तत्तृतीयत्रतेऽभीक्ष्णावग्रह्याचनरूपभावनायाः सत्यापनाथै सम्भाव्यते । ततः पञ्चमङ्गलभणनपूर्व सन्दंशकं प्रमृज्योपविशति, ततो मुखवस्त्रिकां कार्यं च प्रति| लिख्य श्रीगुरूणां वन्दनके दत्त्वा 'इच्छामो अणुसट्ठि' मिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्वेतिपूर्वकं स्तुतित्रयं पठति । इदं च पूर्वोक्तवन्दनकदानं श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्मा - कमाज्ञया प्रतिक्रान्तमिति विज्ञपनार्थ, लोकेऽपि राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निगद्यते, एवमिहापि ज्ञेयम् । एतदर्थश्चायं 'इच्छामः' अभिलषामः, 'अनुशास्ति' गुर्वाज्ञां, प्रतिक्रमणं कार्यमित्येवंरूपां च वयं कृतवन्तः खाभिलाषपूर्वकं नतु राजवेष्ट्यादिना । इत्थं संभावनाविधानं च 'इच्छामो अणुसट्ठिी' मिति प्रणामानन्तरं श्रीगुरूणामादेशस्य श्रवणात् । एवं च प्रतिक्रमणं सम्पूर्ण जातं । तत्सम्पूर्णीभवनाच्च सम्पन्न निर्भर प्रमोदद्मसराकुलवर्द्धमानखरेण वर्द्धमानाक्षरं तीर्थनायकत्वात् श्रीवर्द्धमानस्य स्तुतित्रयं 'नमोऽस्तु वर्द्धमानायें' त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुतौ पाक्षिकप्रतिक्रमणे तु श्रीगुरुपर्वणोर्विशेषवहुमानसूचनार्थं तिसृष्वपि स्तुतिषु भणितासु सतीषु सर्वे साधवः श्राद्धाश्च युगपत्पठन्ति । 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ १ ॥ इत्याद्युक्तेः स्त्रीणां सं For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522