Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 485
________________ RECORRISOLOGROGRESHESASARDAROADS साधुभ्यः श्रद्धया देयं । सूच्यादीनामुपकरणत्वं तु श्रीकल्पे उक्तं, यथा-"असणाई वत्थाई, सूआइ चउक्कगा तिनि" अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि, सङ्कलनया द्वादश, यथा-अशनं १ पानं २ खादिमं ३ खादिमं ४, वस्त्रं १ पात्रं २ कम्बलं ३ पादप्रोञ्छनं ४, सूची १ पिप्पलको २ नखच्छेदन ३ कर्णशोधनकं ४ चेति । एवं श्रावकश्राविकारूपसवमपि यथाशक्ति सभक्तिपरिधापनकादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि । सङ्घार्चा हि उत्कृष्टादिभेदात् त्रिधा-तत्रोत्कृष्टा सर्व-15 परिधापनेन, जघन्या सूत्रमात्रादिना, एकड्यादेर्वा, शेषा मध्यमा, तत्राधिकव्ययनेऽशक्तोऽपि प्रतिवर्ष गु-18 रुभ्यो मुखवस्त्रादिमानं द्विवादिश्राद्धेश्यः पूगादीनि दत्त्वा सङ्घार्चाकृत्यं भक्त्या सत्यापयति, निःखस्य तावतापि महाफलत्वात्, शक्त्या च क्रियमाणेयं महागुणकरी, यतः पञ्चाशके-"सत्तीह संघपूजा, विसेसपूजा |उ बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो संघो॥१॥” इति सार्चाविधिः ॥ साधर्मिकाणां वात्सल्यमपि प्रतिवर्ष यथाशक्ति कार्य, सर्वेषां तत्करणाशक्तेनाप्येकड्यादीनामवश्यं तत् कार्य, समानधर्माणो हि प्रायेण दुष्पापाः, यतः-"सर्वैः सर्वे मिथः सर्वसम्बन्धा लब्धपूर्विणः । साधर्मिकादिसम्बन्धलब्धारस्तु मिताः कचित् ॥१॥" तेषां महत्पुण्यलभ्यसङ्गमानां प्रतिपत्तेस्तु फलमतुलमेव, यतः-“एगत्थ सव्वधम्मो, साहम्मिअवच्छलंतु एगत्थ । वुद्धितुलाए तुलिआ, दोवि अतुल्लाई भणिआई॥१॥" साधर्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनं, राजपिण्डस्य मुनीनामकल्पत्वादिति । तद्विधिस्त्वेवं-सति Jain Education For Private & Personel Use Only X w.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522