Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 487
________________ Jain Education चेव, सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु, जओ एअं विआहियं ॥ १ ॥ जो किर पहणइ साहम्मिअंमि कोवेण दंसणमयंमि । आसायणं तु सो कुणइ, निक्किवो लोगबंधूणं ॥ २ ॥” इति साधर्मिक वात्सल्यद्वारम् २ । अथ ' जत्ततिगंति प्रस्तावात् जिनयात्रात्रिकं तत्र जिनयात्रेति कः शब्दार्थः १, उच्यते पञ्चाशकगाथया - "जता महसवो खलु, उद्दिस्स जिणाण कीरए जो उ । सो जिणजन्ता भण्णइ, तीइ विहाणं तु दाणाइ ॥ १ ॥” महोत्सव एव यात्रा नतु देशान्तरगमनमिति तद्वृत्तिः । जिनानुद्दिश्य महोत्सवो जिनयात्रेतिभावः । तस्या विधानं तु-कल्पः, दानादि, सर्वयात्रासाधारणो, यथा - "दाणं तवोवहाणं, सरीरसक्कारमो जहासत्ती । उचिअं च गीअवाइअथुइथोत्ता पेच्छणाईआ ॥ १ ॥” प्रेक्षणकानामवसरो हि यात्राया आरम्भो मध्यमन्तोऽपि च, यतः - " पत्थावो पुण होउ, इमेसिमारंभमाईओ" इति दानस्यावसरस्तु यात्रारम्भकाल एव, यतस्तत्रैव - " आरम्भे चिअ दाणं, दीणादीण मणतुहिजणणत्थं । रण्णामघायकारणमणहं गुरुणा ससत्ती ॥ १ ॥" उत्तरार्द्धव्याख्या - नृपेण राज्ञा, मा-लक्ष्मीः, सा च द्वेधा धनलक्ष्मीः प्राणलक्ष्मीश्च, अतस्तस्या घातो - हननं तस्याभावः अमाघातोऽमारिरद्रव्यापहारश्चेत्यर्थः, तस्य कारणं-विधापनं, अनघं निर्दोषं, वधप्रवृत्तभोजनवृत्तिमात्रसम्पादनेन, अन्यथा तद्वृत्त्युच्छेदापत्तेः, 'गुरुणा' प्रावचनिकेन, 'खशक्त्या' खसामर्थ्येन, ताहरगुर्वभावे श्रावकादिभिरपि खद्रव्यप्रदानपूर्व कारयितव्य इति भावः । सा च यात्रा त्रिविधा, यदुक्तं“अष्टाहिकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥ १ ॥” तत्राष्टा For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522