Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education
फलवत्थसुवण्णमुत्तरयणाइएहिं च ॥ ९ ॥” उत्कर्षिका पूजाऽर्हडिम्बस्य प्रधानद्रव्यैश्चन्दनागरुकर्पूरपुष्पादिभि:, अत्र अधिवासनावसरे, कर्त्तव्या, तथा औषध्यादिभिश्च प्रतीतैः परं औषध्यो व्रीह्मादयः, फलानि नालिके|रदाडिमानीति ॥ ९ ॥ तथा-"चित्तवलिचित्तगंधेहिं, चित्तकुसुमेहिं चित्तवासेहिं । चित्तेहिं विऊहेहिं, भावेहिं विहवसारेणं ॥ १० ॥" चित्रवलिचित्रगन्धैः पूजा कर्त्तव्येति प्रकृतं, 'चित्तेहिं विऊहेहिं'ति व्यूह रचनाविशेषैः, भावैश्च रचनागतैः प्रक्रीडितप्रमुदितालिङ्गितादिभिर्भक्तिसारैर्विभवसारेण-विभूत्युत्कर्षेणेति ॥ १० ॥ पूजाद्यनन्तरं यत्कर्त्तव्यं तदाह - "चिइवंदण थुइबुट्टी, उस्सग्गो साहु सासणसुरीए । धयसरण पूअ काले, |ठवणा मंगलगपुव्वा उ ॥ ११ ॥” चैत्यवन्दना प्रतीता कर्त्तव्या, स्तुतिवृद्धिः प्रवर्द्धमानस्तुतिपाठरूपा कर्त्तव्या, कायोत्सर्गः, साधु यथा भवति असंमूढतयेत्यर्थः, कस्या आराधनायेत्याह-शासनसुर्याः, स्तवस्मरणं चतुर्विंश| तिस्तवानुचिन्तनं कायोत्सर्गे कार्यम्, अथवा चतुर्विंशतिस्तवः पठनीयः, स्मरणं चैषु गुर्वादीनामिति, ततः पूजा कार्या विम्बस्य प्रतिष्ठाकारस्य वा ततः काले प्रतिष्ठालग्नस्याभिमतांशे, स्थापना जिनबिम्बस्य, मङ्गलपूर्वा तु पञ्चनमस्कारपूर्वैव कर्त्तव्येति ॥ ११ ॥ ततश्च - " पूआ वंदणमुस्सग्ग पारणा भावथेज्जकरणं वा । सिद्धाचलदीवसमुद्दमंगलाणं च पाढो उ ॥ १२ ॥” पूजा प्रतिष्ठितबिम्बस्य विधेया, वन्दनं चैत्यवन्दनं, कायोत्सर्गः, पारणा च तस्य कार्या, तथा भावस्थैर्यकरणं चित्तस्थिरता सम्पादनं भावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठास्थैर्यकरणं च विधेयमत एवाह - सिद्धाचलद्वीपसमुद्रमङ्गलानां च सिद्धानुपमोपेतमङ्गलगाथानां वक्ष्यमाणरू
For Private & Personal Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522