________________
Jain Education
चेव, सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु, जओ एअं विआहियं ॥ १ ॥ जो किर पहणइ साहम्मिअंमि कोवेण दंसणमयंमि । आसायणं तु सो कुणइ, निक्किवो लोगबंधूणं ॥ २ ॥” इति साधर्मिक वात्सल्यद्वारम् २ । अथ ' जत्ततिगंति प्रस्तावात् जिनयात्रात्रिकं तत्र जिनयात्रेति कः शब्दार्थः १, उच्यते पञ्चाशकगाथया - "जता महसवो खलु, उद्दिस्स जिणाण कीरए जो उ । सो जिणजन्ता भण्णइ, तीइ विहाणं तु दाणाइ ॥ १ ॥” महोत्सव एव यात्रा नतु देशान्तरगमनमिति तद्वृत्तिः । जिनानुद्दिश्य महोत्सवो जिनयात्रेतिभावः । तस्या विधानं तु-कल्पः, दानादि, सर्वयात्रासाधारणो, यथा - "दाणं तवोवहाणं, सरीरसक्कारमो जहासत्ती । उचिअं च गीअवाइअथुइथोत्ता पेच्छणाईआ ॥ १ ॥” प्रेक्षणकानामवसरो हि यात्राया आरम्भो मध्यमन्तोऽपि च, यतः - " पत्थावो पुण होउ, इमेसिमारंभमाईओ" इति दानस्यावसरस्तु यात्रारम्भकाल एव, यतस्तत्रैव - " आरम्भे चिअ दाणं, दीणादीण मणतुहिजणणत्थं । रण्णामघायकारणमणहं गुरुणा ससत्ती ॥ १ ॥" उत्तरार्द्धव्याख्या - नृपेण राज्ञा, मा-लक्ष्मीः, सा च द्वेधा धनलक्ष्मीः प्राणलक्ष्मीश्च, अतस्तस्या घातो - हननं तस्याभावः अमाघातोऽमारिरद्रव्यापहारश्चेत्यर्थः, तस्य कारणं-विधापनं, अनघं निर्दोषं, वधप्रवृत्तभोजनवृत्तिमात्रसम्पादनेन, अन्यथा तद्वृत्त्युच्छेदापत्तेः, 'गुरुणा' प्रावचनिकेन, 'खशक्त्या' खसामर्थ्येन, ताहरगुर्वभावे श्रावकादिभिरपि खद्रव्यप्रदानपूर्व कारयितव्य इति भावः । सा च यात्रा त्रिविधा, यदुक्तं“अष्टाहिकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥ १ ॥” तत्राष्टा
For Private & Personal Use Only
jainelibrary.org