SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २४२ ॥ Jain Education | सामर्थ्यं प्रत्यहमेकड्यादिसाधर्मिकाणामन्यथा तु स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मि - कजनानां सविनयं निमन्त्रणं, भोजनवेलायां स्वयं पादप्रक्षालनादिप्रतिपत्तिपुरस्सरं विशिष्टासनेषु संनिवेश्य प्रवरभाजनेषु नानाव्यञ्जनसहितविशिष्ट भोजनताम्बूलवस्त्राभरणादिदानं, आपन्निमग्नानां च स्वधनव्ययेनाभ्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुनः पूर्व भूमिकाप्रापणम् उक्तमपि - " न कथं दीद्धरणं, न कयं साहम्मिआण वच्छलं । हिअयंमि वीअराओ, न धारिओ हारिओ जम्मो ॥ १ ॥" धर्मे च विषीदतां तेन तेन प्रकारेण स्थैर्यारोपणं, प्रमाद्यतां च स्मारणवारणचोदनप्रति चोदनादिकरणं, यतः - " सारणा वारणा चेव, चोअणा पडियोअणा । सावएणावि दायव्वा, सावयस्स हिआवहा ॥ १ ॥ एतदर्थो यथा - विस्मृतस्य धर्मकृत्यस्य ज्ञापनं स्मारणा, तथा कुसंसर्गाद्यकृत्यस्य निषेधनं वारणा, एतयोश्च सततं क्रियमाणयोर्हि कस्यचित्प्रमाद बहुलस्य नियमस्खलितादौ युक्तं किं श्राद्धकुलोत्पन्नस्य तवेत्थं प्रवर्त्तितुं ?' इत्यादिवाक्यैः सोपालम्भं प्रेरणं चोदना, तथा तत्रैवासकृत्स्वलितादौ धिग ते जन्मेत्यादिनिष्ठुरवाक्यैर्गाढतरप्रेरणा प्रतिचोदना, उक्तं च - " पहुट्टे सारणा बुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा होइ, निठुरं पडिचोअणा ॥ १ ॥” इति एतच्च भाववात्सल्यं, यतो दिनकृत्ये - " साहम्मिआण वच्छलं, एअं अन्नं विहिअं । धम्मट्ठाणेसु सीअंतं, सव्वभावेण चोअणा ॥ १ ॥” साधर्मिकाणां वात्सल्यमेतदनन्तरोक्तं द्रव्यवात्सल्यं, अन्यदिति भाववात्सल्यमिति तदर्थः । इत्थं च तेषां प्रतिपत्तिरेव श्रेयसी नतु तैः सह कलहादि, यतः - “विवायं कलहं For Private & Personal Use Only संग्रह ॥ २४२ ॥ w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy