Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
SAMLENGACASSAX
त्वारि पाक्षिकक्षमणानि कुर्वन्ति । तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते यदुत
अखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थित, एवं पाक्षिकं विनयोपचारं 'इच्छामि खमासमणो दपि च में' इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति । ततो द्वितीये क्षमणके चैत्य-18
साधुवन्दनं निवेदयितुकाम 'इच्छामि खमासमणो पुब्धि' इत्यादि भणति । तदनु तृतीये आत्मानं गुरून् निवेदयितुं 'इच्छामि खमासमणो! अब्भुडिओऽहं तुन्भण्हमित्यादि भणति । चतुर्थे तु यच्छिक्षां ग्राहितस्तमनुग्रहं बहुमन्यमानः 'इच्छामि खमासमणो! अहमवि पुव्वाई' मित्यादि वक्ति । एतेषां चतुर्णा पाक्षिकक्षमणकानां प्रत्येकमन्ते 'तुम्भेहिं समं १, अहमवि वंदामि चेइआई २, आयरिअसंतिअं ३, नित्थारपारगा होह इति ४,' श्रीगुरूक्तौ शिष्य 'इच्छन्ति भणति । श्रावकाः पुनरेकैकनमस्कारं पठन्ति । तत 'इच्छामो अणु-/ सहिति भणित्वा वन्दनदैवसिकक्षमणकवन्दनादि दैवसिकप्रतिक्रमणं कुर्यात् । श्रुतदेवतायाः पाक्षिकसूत्रान्ते स्मृतत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवतायाः कायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तर्गतत्वेन तत्वतो भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्ह त्वात् | कायोत्सर्गः साक्षात् क्रियते । स्तवस्थाने च मङ्गलार्थमजितशान्तिस्तवपाठ इति । अत्रापि पाक्षिकप्रतिक्रमणे पश्चविधाचारविशुद्धिस्तत्तत्सूत्रानुसारेण खयमभ्यूह्या । सा चैवं सम्भाव्यते-ज्ञानादिगुणवत्प्रतिपत्तिरूपत्वाद्वन्दनकानि सम्बुद्धक्षमणानि च ज्ञानाचारस्य, द्वादशलोगस्सकायोत्सर्गानन्तरं प्रकटचतुर्विश
Jain Education
For Private & Personel Use Only
(Amjainelibrary.org
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522