Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 474
________________ धर्म ॥ २३६ ॥ Jain Education गवा गृहेऽथ कालेऽगुरुस्मृतिपुरस्सरम् । अल्पनिद्रोपासनं च प्रायेणाब्रह्मवर्जनम् ॥ ६७ ॥ अथेति खाध्यायानन्तर्ये, 'गृहे गत्वा' 'काले' अवसरे रात्रेः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्वकीयपुत्रादीनां पुरतो धर्मदेशनाकथनेन निद्रावसरे जात इत्यर्थः । अल्पनिद्राया उपासनं सेवनं, विशेषतो गृहिधर्मो भवतीति सम्बन्धः । यतो दिनकृत्ये - " काऊण सयणवग्गस्स, उत्तमं धम्मदेसणं । सिजाठाणं तु गंतॄणं, तओ अन्नं करे इमं ॥ १ ॥” इति । अत्र (निद्रेति विशेष्यं, अल्पेति विशेषणं, विशेषणस्य चात्र विधिः, सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामेत इति न्यायात्, निद्रेति विशेष्यं, तेन न तत्र विधिः, दर्शनावरण कर्मोदयेन निद्रायाः खतः सिद्धत्वात्) 'अप्राप्ते हि शास्त्रमर्थव' दिति [निद्राया अल्पत्वे विधिरित्यवसेयं ], कथं निद्रां कुर्यादित्याह - 'अर्हदिति' अर्हन्तः - तीर्थकरा गुरवो-धर्माचार्यास्तेषां स्मृतिः - मनस्यारोपणं पुरस्सरा- पूर्व यस्य तत्तथा, क्रियाविशेषणमिदं, उपलक्षणं चैतत् चतुःशरणगमनदुष्कृत गर्दा सुकृतानुमो|दनासर्वजीवक्षमणप्रत्याख्यान करणाष्टादशपापस्थानवर्जनपञ्चनमस्कार स्मरणप्रभृतीनां न ह्येतद्विना श्रावकस्य शयनं युक्तं, तत्र देवस्मृतिः 'नमो वीअरायाणं, सव्वण्णूणं, तेलोकपूइआणं, जहट्ठिअवत्थुवाईण - मित्यादि, गुरुस्मृतिश्च 'धन्यास्ते ग्रामनगरजनपदादयो, येषु मदीयधर्माचार्या विहरन्तीत्यादि', चैत्यवन्दना - दिना वा नमस्करणं स्मृतिः, यदाह दिनकृत्ये - " सुमरिता भुवण नाहे "त्तिवृत्तौ - स्मृत्वा धातूनामनेकार्थत्वावन्दित्वा, भुवननाथान् जगत्प्रभून्, चैत्यवन्दनां कृत्वेत्यर्थः । चतुःशरणगमनं चैवं 'क्षीणरागादिदोषौघाः, For Private & Personal Use Only %%% संग्रह. ॥ २३६ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522