Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 476
________________ 1564 धर्म संग्रह. ॥२३७॥ रस्मरणं च खापावसरे कार्य, ततो विविक्तायामेव शय्यायां शयितव्यं, नतु ख्यादिसंसक्तायां, तथा सति सतताभ्यस्तत्वाद्विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः, अतः सर्वथोपशा-1 न्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्येति खापविधिः । तथा 'प्रायेण' इति बाहुल्येन, गृहस्थत्वादस्य अब्रह्म-मैथुनं तस्य वर्जन-त्यजनं, गृहस्थेन हि यावजीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यं ॥ ६७ ॥ अथ निद्रान्ते किं कर्त्तव्यमित्याह निद्राक्षयेऽङ्गनाऽङ्गानामशौचादेविचिन्तनम् । इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता ॥ ६८॥ । ततः परिणतायां रात्रौ निद्रायाः क्षये-नाशे सत्यनादिभवाभ्यासरसोल्लसदुर्जयकामरागजयार्थ अङ्गना:स्त्रियस्तासामङ्गानां-शरीराणां यदशौचम्-अपावित्र्यं तस्य विचिन्तनं-विशेषेण विचारणं, आदिशब्दात् जम्बूखामिस्थूलभद्रादिमहर्षिसुश्राद्धादिदुष्पालनशीलपालनपवित्रचरित्रकषायजयोपायभवस्थित्यत्यन्तदुःस्थताधर्ममनोरथानां ग्रहणम्, एषामपि चिन्तनमित्यर्थः, तद्विशेषतो गृहिधर्मो भवतीत्यन्वयः । तत्र स्त्रीशरीरेष्वशुचिचिन्तनमेवम्-"मंसं इमं मुत्तपुरीसमीसं, सिंहाण खेलाण य निजरंतं । एअं अणिचं किमिआण वासं, पासं नराणं मइबाहिराणं ॥१॥” इत्यादि । जम्बूखामिस्थूलभद्रादिमहर्षिचरित्राणि तु प्रसिद्धान्येव, कषायजयोपायस्तु तत्सदोषप्रतिपक्षसेवादिना स्यात्, तथाहि-क्रोधः क्षमया १मानो मार्दवेन २ मायाऽऽर्जवेन है| लोभः सन्तोषेण ४ रागो वैराग्येण ५ देषो मैत्र्या ६ मोहो विवेकेन ७ कामः स्त्रीशरीराशौचभावनया ८ ॥२३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522