Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 478
________________ धर्म ॥ २३८ ॥ अथाहोरात्रिकीं क्रियामुपसंहरन्नुत्तरार्द्धमाह - 'इति' अमुना उक्तप्रकारेणाहोरात्रे भवाऽऽहोरात्रिकी 'चर्या' चरणा 'श्रावकाणां' उक्तखरूपाणां 'उदीरिता' निरूपिता, सा च विशेषतो गृहिधर्मो भवतीति पूर्वक्रियया सम्बन्धः ॥ ६८ ॥ एवं सविस्तरं श्रावकाणां दिनकृत्यानि गृहिधर्मत्वेन विधेयतयोपदर्याथ तेषामेव पर्वादिकृत्यानि पूर्वमुक्तप्रायाण्यपि व्यक्त्याऽतिदिशन्नाह - एवं पर्वसु सर्वेषु चतुर्मास्यां च हायने । जन्मन्यपि यथाशक्ति, स्वस्वसत्कर्मणां कृतिः ॥ ६९ ॥ 'एवं' उक्तेन प्रकारेण 'सर्वेषु' न त्वेकद्व्यादिषु 'पर्वसु' चतुर्दश्यादितिथिषु, 'चः' समुच्चये, चतुर्णा मासानां समाहारचतुर्मासी तस्यां च परं 'हायने' वर्षे, तथा 'जन्मन्यपि' न तु केवलं पर्वादिष्वेवेत्यपिशब्दार्थः, एतेषु 'यथाशक्ति' शक्तिमनतिक्रम्य चित्तवित्तगतसामर्थ्यानुल्लङ्घनेनेत्यर्थः तेषु किमित्याह - 'खेत्यादि' खानि स्वानीति वीप्सायां द्वित्वं, पर्वसु पर्वकर्माणि खान्युच्यन्ते, एवं चतुर्मास्यादौ भावनीयं तानि चाशोभनान्यपि भवन्त्यतो विशेषणमाह-सन्तीति-सदिति, खानि खानि यानि सन्ति-शोभनानि, धार्मिकाणीत्यर्थः, कर्माणि कृत्यानि तेषां कृतिः करणं, विशेषतो गृहिधर्मो भवतीति सम्बन्धः । नित्यकृत्यानि यथा नित्यं कार्याणि तथा पर्वादिकृत्यानि पर्वादिष्विति भावः । तत्र पर्वाणि चैवमूचुः - " अट्ठमि चउदसि पुण्णिमा य तहामावसा हवइ पव्वं । मासंमि पव्वछक्कं तिन्नि अ पव्वाई पक्खमि ॥१॥' "चाउद्दसमुद्दिपुण्णमासी सु"त्ति सूत्रप्रामाण्यात्, महानिशीथे तु ज्ञानपश्चम्यपि पर्वत्वेन विश्रुता । 'अट्ठमीचउद्दसीसुं नाणपंचमीसु उववासं Jain Education International For Private & Personal Use Only संग्रह. ॥ २३८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522