________________
धर्म
॥ २३८ ॥
अथाहोरात्रिकीं क्रियामुपसंहरन्नुत्तरार्द्धमाह - 'इति' अमुना उक्तप्रकारेणाहोरात्रे भवाऽऽहोरात्रिकी 'चर्या' चरणा 'श्रावकाणां' उक्तखरूपाणां 'उदीरिता' निरूपिता, सा च विशेषतो गृहिधर्मो भवतीति पूर्वक्रियया सम्बन्धः ॥ ६८ ॥ एवं सविस्तरं श्रावकाणां दिनकृत्यानि गृहिधर्मत्वेन विधेयतयोपदर्याथ तेषामेव पर्वादिकृत्यानि पूर्वमुक्तप्रायाण्यपि व्यक्त्याऽतिदिशन्नाह -
एवं पर्वसु सर्वेषु चतुर्मास्यां च हायने । जन्मन्यपि यथाशक्ति, स्वस्वसत्कर्मणां कृतिः ॥ ६९ ॥ 'एवं' उक्तेन प्रकारेण 'सर्वेषु' न त्वेकद्व्यादिषु 'पर्वसु' चतुर्दश्यादितिथिषु, 'चः' समुच्चये, चतुर्णा मासानां समाहारचतुर्मासी तस्यां च परं 'हायने' वर्षे, तथा 'जन्मन्यपि' न तु केवलं पर्वादिष्वेवेत्यपिशब्दार्थः, एतेषु 'यथाशक्ति' शक्तिमनतिक्रम्य चित्तवित्तगतसामर्थ्यानुल्लङ्घनेनेत्यर्थः तेषु किमित्याह - 'खेत्यादि' खानि स्वानीति वीप्सायां द्वित्वं, पर्वसु पर्वकर्माणि खान्युच्यन्ते, एवं चतुर्मास्यादौ भावनीयं तानि चाशोभनान्यपि भवन्त्यतो विशेषणमाह-सन्तीति-सदिति, खानि खानि यानि सन्ति-शोभनानि, धार्मिकाणीत्यर्थः, कर्माणि कृत्यानि तेषां कृतिः करणं, विशेषतो गृहिधर्मो भवतीति सम्बन्धः । नित्यकृत्यानि यथा नित्यं कार्याणि तथा पर्वादिकृत्यानि पर्वादिष्विति भावः । तत्र पर्वाणि चैवमूचुः - " अट्ठमि चउदसि पुण्णिमा य तहामावसा हवइ पव्वं । मासंमि पव्वछक्कं तिन्नि अ पव्वाई पक्खमि ॥१॥' "चाउद्दसमुद्दिपुण्णमासी सु"त्ति सूत्रप्रामाण्यात्, महानिशीथे तु ज्ञानपश्चम्यपि पर्वत्वेन विश्रुता । 'अट्ठमीचउद्दसीसुं नाणपंचमीसु उववासं
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ २३८ ॥
www.jainelibrary.org