________________
Jain Education
न करेड् पच्छित्तमित्यादिवचनात् तथाऽन्यत्र च - "बीआ पंचमि अट्ठमि, एगारसि चउद्दसी पण तिहीउ ।। एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥ १ ॥ बीआ दुविहे धम्मे, पंचमि नाणेसु अट्टकम्मे अ । एगारसि अंगाणं, चउदसी चउदपुत्र्वाणं ॥ २ ॥” एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां सह षट्पर्वी च प्रतिपक्षं उत्कृष्टतः स्यात् । एषु च पर्वसु कृत्यानि यथा - पौषधकरणं, प्रतिपर्व तत्करणाशक्तौ तु अष्टम्यादिषु नियमेन, यदागमः - " सव्वेसु कालपव्वेसु, पसत्यो जिणमए हवइ जोगो । अट्ठमिचउद्दसीसु अ, नियमेण हविज पोसहिओ ॥ १ ॥” इति । यथाशक्तिग्रहणादष्टम्यादिष्वपि पौषधकरणाशक्ती द्विष्प्रतिक्रमणबहुबहुतरसामायिककरणबहुसंक्षेपदेशावकाशिकव्रतखीकरणादि कार्य । पौषधविधिश्व पूर्व दर्शित एव । स्नानशीर्षादिशोधनग्रथनवस्त्रादिधावनरञ्जनशकटहलादिखेटनमूटकादिबन्धनयन्त्रादिवाहनदलनखण्डनपेषणपत्रपुष्पफलादिनोटन सच्चित्तखटीवर्णिकादिमर्दनधान्यादिलवन लिम्पनमृदादिखननकर्त्तनगृहादिनिष्पादनसच्चित्ताहार भक्षणादिसर्वारम्भवर्जन विशेषतपोऽभ्युपगमनविशेषतः स्नात्र पूजा चैत्यपरिपाटीकरणसर्वसाधुनमस्करण सुपात्रदान ब्रह्मचर्यपालनादीनि धर्मानुष्ठानानि कार्याणि, यतः - " जइ सव्वेसु दिणेसुं, पालह किरिअं तओ हवइ लहं । जं पुण तहा न सक्कह, तहवि हु पालिज पव्वदिणं ॥ १ ॥” तथा"नाहणचीवरघोअणमत्थयगुंथणमवंभचेरं च । खंडनपीसणलिप्पण, वज्जेअव्वाइं पञ्चदि ॥ २ ॥” आगमे|ऽपि पर्वतिथिपालनस्य शुभायुर्बन्धहेतुत्वादिना महाफलत्वं प्रतिपादितं यतः - "भयवं ! बीअपमुहासु पंचसु
तथा तेषु
For Private & Personal Use Only
w.jainelibrary.org