Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 468
________________ धर्म ॥ २३३ ॥ पन्नस्य 'धर्मस्य' श्रावकधर्मस्य 'केवलिप्रज्ञप्तस्य' 'अभ्युत्थितोऽस्म्याराधनाय' उद्यतोऽहं सम्यक्पालनार्थे, 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम् ॥ ४३ ॥ एवं भावजिनान्नत्वा सम्यक्त्व| शुद्ध्यर्थं त्रिलोकगतस्थापनार्हद्वन्दनार्थमाह - " जावंति चेहयाई० ॥ ४४ ॥ कण्ठ्या । नवरं - 'इहसंतोत्ति' इहस्थितः ॥ ४४ ॥ साम्प्रतं सर्वसाधुवन्दनायाह - "जावंत केवि साहु, भर० ॥ ४५ ॥" 'यावन्तः केचित्साधवो' जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसङ्ख्या, जघन्यतस्तु [द्विकोटि सहस्रप्रमिताः, भरतैरावतमहाविदेहेषु, चशब्दात्संहरणादिनाऽकर्मभूम्यादिषु च सर्वेभ्यस्तेभ्यः प्रणतस्त्रि ] विधेनेत्यादि सुगमम् ॥ ४५ ॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशं| सन्नाह— “चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ बोलंतु मे दिअहा ॥ ४६ ॥ " 'कण्ठ्या | नवरं - 'कथया' तन्नामोच्चारणतगुणोत्कीर्त्तनतच्चरितवर्णनादिकया वचनपद्धत्या, 'वोलंतुति' व्रजन्तु ॥ ४६ ॥ सम्प्रति मङ्गलपूर्वकं जन्मान्तरेऽपि समाधिबोध्याशंसामाह - मम मंगलमरहंता, सिद्धा साहू सुअं च धम्मो य । समद्दिट्ठी देवा, दिंतु समाहिं च बोहिं च ॥ ४७ ॥" 'मम मङ्गलमर्हन्तः सिद्धाः साधवः' 'श्रुतं' चाङ्गोपाङ्गाद्यागमः, 'धर्मः' चारित्रात्मकः चशब्दाल्लोकोत्तमाश्च शरणं चैते इति द्रष्टव्यं । चत्तारि मङ्गलमित्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्मान्तर्गतत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थ, तथा 'सम्यग्दृष्टयः' अर्हत्याक्षिका देवाश्च देव्यश्चेत्येकशे Jain Education International For Private & Personal Use Only संग्रह ॥ २३३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522