Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 470
________________ धर्म ॥ २३४ ॥ Jain Education गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य कथने को नाम नाधिकारः ?, 'पढइ सुणेइ गुणेइ, जणस्स धम्मं परिकहेइ' इत्यादिवचनात् तथा चूर्णि:- 'सो जिणदाससावओ अट्ठमिचउद्दसी उववासं करेइ पुत्थयं च वाएइ' इत्यादि ॥ ४८ ॥ साम्प्रतमनादिसंसारसागरावर्त्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात्तत्क्षमणायाह - “खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएस, वेरं मज्झ न केणई ॥ ४९ ॥" 'क्षमयामि सर्वजीवान्' अनन्तभवेष्वप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमात्मर्षयामि सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितं, अत्र हेतुमाह - 'मैत्री मे सर्वभूतेषु' 'वैरं मम न केनचित् ' कोऽर्थः ? मोक्षलाभ हेतुभिस्तान् सर्वान् वशक्त्या लम्भयामि, न च केषाञ्चिन्निकृतामपि विघाते वर्त्तेऽहमिति । वैरं हि भूरिभवपरम्पराऽनुयायि कमठमरुभूत्यादीनामिवेति ॥ ४९ ॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह - " एवमहं आलोइय, निंदिय गरहिय दुगंछिउं समं । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥ ५० ॥" कण्ठ्या । नवरं 'दुर्गाछिउँ'ति जुगुप्सित्वा धिग्मां पापकारिणमित्यादिना, सम्यगिति च सर्वत्र योज्यं । इत्येवमल्परुचिसत्त्वबोधनाय श्राद्धप्रतिक्रमणसूत्रसङ्क्षेपार्थोऽत्र लिखितो, विस्तरार्थस्तु वृहद्वृत्तितश्चूर्णितश्चावसेयः । अत्र च प्रसङ्गतोऽन्यान्यपि शेषसूत्राणि व्याख्यायन्ते – “आयरिअ उवज्झाए, सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया, सव्वे तिविहेण खामेमि ॥ १ ॥” आचार्ये उपाध्याये शिष्ये साधर्मिके कुले गणे च ये मे केऽपि कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवा For Private & Personal Use Only संग्रह. ॥ २३४ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522