________________
धर्म
॥ २३३ ॥
पन्नस्य 'धर्मस्य' श्रावकधर्मस्य 'केवलिप्रज्ञप्तस्य' 'अभ्युत्थितोऽस्म्याराधनाय' उद्यतोऽहं सम्यक्पालनार्थे, 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम् ॥ ४३ ॥ एवं भावजिनान्नत्वा सम्यक्त्व| शुद्ध्यर्थं त्रिलोकगतस्थापनार्हद्वन्दनार्थमाह - " जावंति चेहयाई० ॥ ४४ ॥ कण्ठ्या । नवरं - 'इहसंतोत्ति' इहस्थितः ॥ ४४ ॥ साम्प्रतं सर्वसाधुवन्दनायाह - "जावंत केवि साहु, भर० ॥ ४५ ॥" 'यावन्तः केचित्साधवो' जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसङ्ख्या, जघन्यतस्तु [द्विकोटि सहस्रप्रमिताः, भरतैरावतमहाविदेहेषु, चशब्दात्संहरणादिनाऽकर्मभूम्यादिषु च सर्वेभ्यस्तेभ्यः प्रणतस्त्रि ] विधेनेत्यादि सुगमम् ॥ ४५ ॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशं| सन्नाह— “चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ बोलंतु मे दिअहा ॥ ४६ ॥ " 'कण्ठ्या | नवरं - 'कथया' तन्नामोच्चारणतगुणोत्कीर्त्तनतच्चरितवर्णनादिकया वचनपद्धत्या, 'वोलंतुति' व्रजन्तु ॥ ४६ ॥ सम्प्रति मङ्गलपूर्वकं जन्मान्तरेऽपि समाधिबोध्याशंसामाह - मम मंगलमरहंता, सिद्धा साहू सुअं च धम्मो य । समद्दिट्ठी देवा, दिंतु समाहिं च बोहिं च ॥ ४७ ॥" 'मम मङ्गलमर्हन्तः सिद्धाः साधवः' 'श्रुतं' चाङ्गोपाङ्गाद्यागमः, 'धर्मः' चारित्रात्मकः चशब्दाल्लोकोत्तमाश्च शरणं चैते इति द्रष्टव्यं । चत्तारि मङ्गलमित्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्मान्तर्गतत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थ, तथा 'सम्यग्दृष्टयः' अर्हत्याक्षिका देवाश्च देव्यश्चेत्येकशे
Jain Education International
For Private & Personal Use Only
संग्रह
॥ २३३ ॥
jainelibrary.org