________________
GAURRECTORAGALLERS
षाद्देवा-यक्षाम्बाप्रभृतयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं 'बोधि' प्रेत्य जिनधर्मप्राप्तिरूपां । आह-ते| देवाः समाधिदाने किं समर्था नवा?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्य, यदि समर्थास्तहि दूरभव्याभव्येभ्यः किं न प्रयच्छन्ति ?, अथैवं मन्यते-योग्यानामेव ते समर्था, नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किंतु जिनमतानुयायिनः, तच्च सर्वनयसमूहात्मकस्याद्वादमुद्रानतिभेदि, 'सामग्री वै जनिति वचनात् , यथा हि घटनिष्पत्ती मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणं, एवमिहापि जीवयोग्यतायां सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति मेतार्यादेरिव इत्यतो न निरर्थका तत्प्रार्थनेति ॥४७॥ ननु खीकृतव्रतस्य प्रतिक्रमणं युक्तं, नवव्रतिनां, व्रतासत्त्वेनातिचारासंभवादितिचेत्, मैवं, यतो नातिचारेष्वेव प्रतिक्रमणं, किंतु चतुर्यु स्थानेषु इति । येषु चतुर्पु स्थानेषु प्रतिक्रमणं भवति तदुपदर्शनायाह-“पडिसिद्धाणं करणे, किचाणमकरणे अ पडिक्कमणं । अस्सद्दहणे अ तहा, विवरीअपरूवणाए य॥४८॥" 'प्रतिषिद्धानां सम्यक्त्वाणुव्रतादिमालि-| न्यहेतुशङ्कावधादीनां करणे' 'कृत्यानां' चाङ्गीकृतपूजादिनियमानामकरणे 'अश्रद्धाने'च निगोदादिविचारविप्रत्यये, तथा 'विपरीतप्ररूपणायां' उन्मार्गदेशनायां, इयं हि चतुरन्ताद्भभवभ्रमणहेतुर्मरीच्यादेरिव, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति ब्रूमः,
Jain Education
For Private Personal use only
Mainelibrary.org