________________
Jain Education
**
तेषामेव प्रतिक्रमात्वख्यापनार्थ, 'आलोइअनिंदिओत्ति' आलोचितनिन्दितः सम्यकृतालोचननिन्दाविधिरित्यर्थः, 'गुरुसकाशे' इत्यनेन चागुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणाया आलोचनायाः शुद्ध्यभावो दर्शितः, 'ओहरिअभवत्ति' अपहृतभार इवेति ॥ ४० ॥ सम्प्रति श्रावकस्य बह्वारम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह - "आवस्सएण एएण, सावओ जइवि बहुओ होइ । दुक्खाणमंतकिरियं, काही अचिरेण कालेण ॥ ४१ ॥” आवश्यकेनैतेनेति षड्विधभावावश्यकरूपेण, नतु दन्तधावनादिना द्रव्यावश्यकेन, 'श्रावको' 'यद्यपि' 'बहुरजा' बहुबध्यमानकर्मा बहुरतो वा विविध सावद्यारम्भासक्तो भवति, तथापीत्यध्याहारादू 'दुःखानां' शारीरमानसानां 'अंतकिरियं' अन्तक्रियां विनाशं 'करिष्यत्यचिरेण' स्तोकेनैव कालेन, अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं, तथापि परम्पराहेतुरिदमपि जायते, सुदर्शनादेरिवेति ॥ ४१ ॥ सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह - " आलोयणा बहुविहा, न य संभरिया पडिकमणकाले । मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥ ४२ ॥” कण्ठ्या । नवरं - 'आलोचना' गुरुभ्यो निजदोषकथनं, उपचारात् तत्कारणभूता प्रमादक्रियाप्यालोचना, 'पडिक्कमणकालेत्ति' आलोचना निन्दागर्हाऽवसरे ॥ ४२ ॥ एवं प्रतिक्रामको दुष्कृतनिन्दादीन् विधाय विनयमूलधर्माराधनाय कायेनाभ्युत्थितः 'तस्स धम्मस्स केवली पण्णत्तस्सप्ति' भणित्वा मङ्गलगर्भमिदमाह - " अभुट्टिओमि आराहणाइ, विरओ विराहणाए अ । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥ ४३ ॥' 'तस्य' गुरुपार्श्वे प्रति
For Private & Personal Use Only
ainelibrary.org