Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 448
________________ धर्म ॥ २२३ ॥ सिद्धाः, सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान् तथा 'धर्माचार्यान्' श्रुतचारित्रधर्माचारसाधून् धर्मदावनं वा, चशब्दादुपाध्यायान् श्रुताध्यापकान्, तथा 'सर्वसाधूंश्च' स्थविरकल्पिकादिभेदभिन्नान् मोक्षसाधकान् मुनीन्, चः समुच्चये, एवं च विघ्नत्रातोपशान्तये कृतपञ्चनमस्कार इदमाह - 'इच्छामि' अभिलषामि, 'प्रतिक्रमितुं' निवर्त्तितुं, कस्मादित्याह - 'श्रावकधर्मातिचारात्' जातावेकवचनं, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाद्याचारपञ्चकस्य चतुर्विंशशतसङ्ख्यातिचारेभ्यः प्रतिक्रमितुमिच्छामीति गाथार्थः ॥ १ ॥ सामान्येन सर्वव्रतातिचारप्रतिक्रमणार्थमाह - " जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ । सुहुमो य बायरो वा, तं निंदे तं च गरिहामि ॥ २ ॥ " 'य' इति सामान्येन, 'मे' मम (सर्व) 'व्रतातिचारः' अणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ख्यः, सञ्जात इति शेषः, तथा 'ज्ञाने' ज्ञानाचारे कालविनयाद्यष्टप्रकारे वितथाचरणरूपः, तथा 'दर्शने' सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण निःशङ्किताद्यष्टविधे च दर्शनाचारे अनासेवनाद्वारेण, तथा 'चारित्रे' समि तिगुसिलक्षणेऽनुपयोगरूपोऽतीचारः चशब्दात्तपोवीर्याचारयोः संलेखनायां च तत्र बाह्याभ्यन्तरभेदात्तपो द्वादशधा, वीर्य मनोवाक्कायैस्त्रिधा, अतिचारता चानयोर्धर्मे खशक्तिगोपनात्, संलेखनायास्तु पञ्चातिचाराः, एवं चतुर्विंशत्यधिकशतसङ्ख्यातिचारमध्ये यः 'सूक्ष्मो वा' अनुपलक्ष्यः 'बादरो वा' व्यक्तः, 'तं निन्दामि' मनसा पश्चात्तापेन 'तं च गर्हे' गुरुसमक्षमिति ॥ २ ॥ प्रायोऽन्यवतातिचारा अपि परिग्रहात् प्रादुर्भवन्त्यतः सामान्येन तत्प्रतिक्रमणायाह - “दुविहे परिग्गहंमी, सावज्जे बहुविहे य आरंभे । कारावणे अ Jain Education International For Private & Personal Use Only संग्रह. ॥ २२३ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522