________________
धर्म
॥ २२३ ॥
सिद्धाः, सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान् तथा 'धर्माचार्यान्' श्रुतचारित्रधर्माचारसाधून् धर्मदावनं वा, चशब्दादुपाध्यायान् श्रुताध्यापकान्, तथा 'सर्वसाधूंश्च' स्थविरकल्पिकादिभेदभिन्नान् मोक्षसाधकान् मुनीन्, चः समुच्चये, एवं च विघ्नत्रातोपशान्तये कृतपञ्चनमस्कार इदमाह - 'इच्छामि' अभिलषामि, 'प्रतिक्रमितुं' निवर्त्तितुं, कस्मादित्याह - 'श्रावकधर्मातिचारात्' जातावेकवचनं, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाद्याचारपञ्चकस्य चतुर्विंशशतसङ्ख्यातिचारेभ्यः प्रतिक्रमितुमिच्छामीति गाथार्थः ॥ १ ॥ सामान्येन सर्वव्रतातिचारप्रतिक्रमणार्थमाह - " जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ । सुहुमो य बायरो वा, तं निंदे तं च गरिहामि ॥ २ ॥ " 'य' इति सामान्येन, 'मे' मम (सर्व) 'व्रतातिचारः' अणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ख्यः, सञ्जात इति शेषः, तथा 'ज्ञाने' ज्ञानाचारे कालविनयाद्यष्टप्रकारे वितथाचरणरूपः, तथा 'दर्शने' सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण निःशङ्किताद्यष्टविधे च दर्शनाचारे अनासेवनाद्वारेण, तथा 'चारित्रे' समि तिगुसिलक्षणेऽनुपयोगरूपोऽतीचारः चशब्दात्तपोवीर्याचारयोः संलेखनायां च तत्र बाह्याभ्यन्तरभेदात्तपो द्वादशधा, वीर्य मनोवाक्कायैस्त्रिधा, अतिचारता चानयोर्धर्मे खशक्तिगोपनात्, संलेखनायास्तु पञ्चातिचाराः, एवं चतुर्विंशत्यधिकशतसङ्ख्यातिचारमध्ये यः 'सूक्ष्मो वा' अनुपलक्ष्यः 'बादरो वा' व्यक्तः, 'तं निन्दामि' मनसा पश्चात्तापेन 'तं च गर्हे' गुरुसमक्षमिति ॥ २ ॥ प्रायोऽन्यवतातिचारा अपि परिग्रहात् प्रादुर्भवन्त्यतः सामान्येन तत्प्रतिक्रमणायाह - “दुविहे परिग्गहंमी, सावज्जे बहुविहे य आरंभे । कारावणे अ
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ २२३ ॥
w.jainelibrary.org