________________
Jain Education
करणे, पडिक्कमे देसिअं सव्वं ॥ ३ ॥" "द्विविधे परिग्रहे' सचित्ताचित्तरूपे, 'सावधे' सपापे 'बहुविधे' अनेकप्रकारे 'आरम्भ' प्राणातिपातरूपे 'कारणे' अन्यैर्विधापने 'करणे' स्वयंनिवर्त्तने चशब्दात् कचिदनुमतावपि, यो मेतिचारस्तमित्यनुवर्त्तते, तं निरवशेषं, देसिअं ति - आर्षत्वादैवसिकं, एवं रात्रिकपाक्षिकाद्यपि खस्वप्रतिक्रमणे, अशुभभावात् प्रातिकूल्येन क्रमामि निवर्त्तेऽहमित्यर्थः, उक्तं च - " स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशात् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते । १ ।” इति ॥ ३ ॥ अधुना ज्ञानातिचारनिन्दनायाह"जं बद्धमिंदिरहिं, चहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥ ४ ॥” 'यद्वद्धं' यत् कृतमशुभं कर्म, प्रस्तावाद्विरतिनिबन्धकाप्रशस्तेन्द्रियकषायवशगानां ज्ञानातिचारभूतं, यदुक्तम् - " तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ १ ॥” 'इन्द्रियैः स्पर्शनेन्द्रियादिभिः स्पर्शादिविषयसम्बद्ध सम्भूतसाधुसोदासराजघ्राणप्रियकुमारमथुरावणिक सुभद्राश्रेष्ठिन्यादिवत्, तथा 'चतुर्भिः कषायैः क्रोधादिभिरप्रशस्तै स्ती बौदधिक भावमुपगतैर्मण्डूकक्षपकपरशुरामधनश्रीमम्मणादिवत्, 'रागेण' दृष्टिरागादिरूपेण गोविन्दवाचकोत्तराभ्यामिव, 'द्वेषेण' अप्रीतिरूपेण गोष्ठामाहिलादिवत्, वाशब्दौ विकल्पार्थो, 'तं निन्दे' इत्यादि प्राग्वत् ॥ ४ ॥ साम्प्रतं सम्यग्दर्शनस्य चक्षुर्दर्शनस्य च प्रतिक्रमणायाह - "आगमणे निग्गमणे, ठाणे चकमणे अणाभोगे । अभिओगे अ निओगे, पडिक्कमे देसिअं सव्वं ॥ ५ ॥" 'आगमने' 'मिध्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेना- समन्ता
For Private & Personal Use Only
w.jainelibrary.org