SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ घ. सं. ३८ Jain Education In कप्रतिक्रमणसूत्रमयुक्तं, निर्युक्तिभाष्यचूर्ण्यादिभिरतन्त्रितत्वेनानार्षत्वात् नैवं आवश्यकादिदशशास्त्रीव्यतिरेकेण नियुक्तीनामभावेनोपपातिकाद्युपाङ्गानां च चूर्ण्यभावेनानार्षत्वप्रसङ्गात्, तत् प्रतिक्रमणमप्यस्ति तेषां ४ । कायोत्सर्गस्तु ईर्यापथिकीप्रतिक्रमणात् पञ्चमप्रतिमाकरणात् सुभद्राश्राविकादिनिदर्शनाच्च श्रावकस्य विधेयतया प्रतिपत्तव्यो, यदि हि साधवोऽपि भङ्गभयात् साकारं कायोत्सर्ग प्रतिपद्यन्ते, तदा गृहिभिः सुतरामसौ तथा प्रतिपत्तव्यः, साध्वपेक्षया तेषामनैष्ठिकत्वादिति ५ । एवं प्रत्याख्यानमपि, ननु पारिष्ठापनिकादयश्चाकाराः साधूनामेव घटन्ते, ततो गृहिणामयुक्तमेव तद्, नैवं यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणोऽपि यथा वा भगवतीयोगवाहिनो गृहस्थसंसृष्टाद्यनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोच्चारणेन प्रत्याख्यान्ति, 'अखण्डं सूत्रमुच्चारणीय' मितिन्यायाद्, एवं गृहस्था अपीति न दोषः ६ । तस्मात् साधुवच्छ्रावकेणापि श्रीसुधर्मखाम्यादिपरम्परायातविधिना प्रतिक्रमणं कार्यमित्यलं प्रसङ्गेन । अथ प्राकू यत् प्रतिज्ञातं प्रतिक्रमणविवरणसूत्रं षडावश्यकप्रान्ते वक्ष्यत इति, तत्र च यतिप्रतिक्रमणसूत्र विवरणस्य यतिधर्माधिकारे वक्ष्यमाणत्वात् श्रावकप्रतिक्रमणस्येदानीमवसरः, तत्र कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, तस्य च सर्वातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वान्मङ्गलादिविधानार्थं प्रथमगाथामाह - " वंदित्तु सव्वसिद्धे, धम्मायरिए अ सव्वसाहू अ । इच्छामि पडिक्कमिडं, सावगधम्माइआरस्स ॥ १ ॥" 'वन्दित्वा' नत्वा, सर्व वस्तु विदन्ति सर्वेभ्यो हिता वेति सार्वास्तीर्थकृतः सिध्यन्ति स्म सर्वकर्मक्षयान्निष्ठितार्था भवन्ति स्मेति For Private & Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy