________________
धर्म
संग्रह.
॥२२२॥
शब्दवर्ज श्रावकस्योक्तं १, चतुर्विंशतिस्तवस्तु सम्यग्दर्शनशुद्धिनिमित्तत्वात्, सम्यग्दर्शनस्य च श्रावकस्यापि शोधनीयत्वात्, कर्तृविशेषस्य चानभिहितत्वाचोपपन्न एवास्य, किञ्च-ईर्यापथिकीप्रतिक्रमणस्य गमनागमनशब्देन भगवत्यां शङ्खोपाख्यानके पुष्कलिश्रावककृतत्वेन दर्शितत्वाद, गमनागमनशब्दस्य चेर्यापथिकीप
यतया भगवत्यामेव तेषु तदाख्यानकेषु ओघनियुक्तिचूया च प्रसिद्धत्वाद, ईर्यापथिकीकायोत्सर्गे च चतुर्विशतिस्तवस्य प्रायश्चिन्तनीयत्वाचासौ सिद्ध इति २, वन्दनकमपि गुणवत्प्रतिपत्तिरूपत्वादू, गुणवत्प्रतिपत्तश्च श्रावकस्याप्यविरुद्धृत्वात् , कृष्णादिभिश्च तस्य प्रवर्तितत्वात्, सङ्गतमेवास्य, ननु 'पंचमहव्वयजुत्तो, अनलसमाणपरिवजिअमई अ । संविग्गनिजरही, किइकम्मकरो हवइ साहू ॥१॥त्ति' इत्यनया नियुक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वन्दनकं, नैवं, यतः साधुग्रहणं तत्र तदन्यवन्दकोपलक्षणार्थ, यदि तु व्यवच्छेदार्थमभविष्यत्तदा साध्च्या अपि व्यवच्छेदोऽभविष्यत्, न चासौ सङ्गतो, मातुर्विशेषेण वन्दनकनिषेधात्, तथा 'पंचमहव्वयजुत्तो' अनेन यथा महाव्रतग्रहणादणुव्रतयुक्तस्य व्यवच्छेदस्तथा पञ्चग्रहणाचतुर्महाव्रतयुक्तस्य मध्यतीर्थसाधोरपि व्यवच्छेदः स्याद्, न चैतदिष्टमित्यतो निर्विशेषं वन्दनकमपीति ३, प्रतिक्रमणं सामान्यत ईर्यापथिकीप्रतिक्रमणभणनेनैव सिद्धं, न च विचित्राभिग्रहवतां |श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यं, प्रतिपन्नव्रतस्यातिचरणे प्रतिक्रमणं युक्तं, अन्यस्य तु अश्रद्धानादिविषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात्, ननु साधुप्रतिक्रमणाद्भिन्नं श्राव
॥२२२॥
Jain Education
For Private & Personel Use Only
jainelibrary.org