________________
FR4
न पड्डिधमिति वक्तुं युक्तं, 'समणेण सावएण य, अवस्सकायब्वयं हवइ जम्हा । अंतो अहोनिसिस्स य, तम्हा आवस्सयं नाम ॥ १ ॥' इत्यागमे श्रावकं प्रत्यप्यावश्यकविधेयत्वस्य स्पष्टमेवोक्तत्वात् । न चात्र चैत्यवन्दनायेवावश्यकं वक्तुमुचितं, 'अज्झयणछक्कवग्गों इत्यादितदेकार्थिकपदोपन्यासेन तस्य षधित्वेन निश्चितत्वात्, 'अंतो अहोनिसिस्स य' इति कालद्वयाभिधानाच, चैत्यवन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् , अनुयोगद्वारेष्वपि-'जन्नं समणे वा समणी वा सावए वा साविआ वा तचित्ते तम्मणे तल्लेसे तद्ज्झवसिए तदट्टोवउत्ते तदप्पिअकरणे तब्भावणभाविए उभओकालं आवस्सयं करेइ, सेत्तं लोउत्तरिअं भावावस्सयं' इत्युक्तं, ततः श्रावकस्यापि आवश्यककरणं युक्तमेव । अथ ब्रूषे-षड्डिधावश्यकमतिचारशुद्धिरूपं वर्त्तते, नच श्रावकाणामालोचनादिदशप्रकारशुद्धेमध्यादेकापि कल्पादिग्रन्थेषुपलभ्यते, न च तेषामतिचारा घटन्ते, संज्वलनोदय एव तेषामुक्तत्वाद्, अत्रोच्यते, यद्यपि श्रावकाणां प्रकल्पादिषु शुद्धिर्न दृश्यते, तथाप्यसौ श्रावकजीतकल्पादेः सकाशावश्यमभ्युपगन्तव्या, अन्यथोपासकदशासु यदुक्तं-किल भगवान् गौतममुनिरानन्दश्रावकं प्रत्यवादीत् 'तुमं णं आणंदा! एअस्स अट्ठस्स आलोआहि पडिक्कमाहि निंदाहि गरिहाहि अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि' इति कथं घटते ?, अत एव ज्ञापकातिचारा अपि तेषां भवन्तीति सिद्धं, यथा वा अतिचारा असंज्वलनोदयेऽपि भवन्ति तथा प्रागुक्तं । किञ्च-'सव्वंति भाणिऊणं, विरई खलु जस्स सविआ नत्थि । सो सव्वविरइवाई, चुक्का देसं च सव्वं च ॥१॥ इत्यनया गाथया सामायिकसूत्रं सर्व
"CA-CA
For Private Personal Use Only
M
Jain Education in
ainelibrary.org