________________
धर्म-
SA
॥२२१॥
ALANGACASEAAAA
परिणामश्चेति चतुर्थः ४। एवं निषण्णशयितयोरपि चतुर्भङ्गी वाच्या। कायोत्सर्गस्य च सूत्रार्थ एकोनविंशति-18| संग्रह. दोषाश्च प्राग्व्याख्याता एव । कायोत्सर्गस्यापि फलं निर्जरैव, यदाहु:-"काउस्सग्गे जह संठिअस्स भजति अंगमंगाई । इय भिंदंति सुविहिया, अट्ठविहकम्मसंघायं ॥१॥" अथ प्रत्याख्यानं, प्रति-प्रतिकूलतया आमर्यादया ख्यान-प्रकथनं प्रत्याख्यानं, तदपि पूर्व व्याख्यातमेव । इति षडावश्यकक्रियालक्षणप्रतिक्रमणविधिः । इदं च प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेन अभ्यासाद्यर्थ च यथाभद्रकेणापि । अत्राह-नन्वप्रतिपन्नान्यतरव्रतस्य यथाभद्रकस्य तदतिचारासम्भवः, तदसम्भवे च तच्छुद्धिरूपं प्रतिक्रमणकरणमनुचितं, तथा च तत्पाठोच्चारणमप्यसङ्गतमेव, अन्यथा महाव्रतातिचाराणामप्युच्चारणप्रसङ्गः, इति चेन्नैवं, यथाभद्रकस्यापि मार्गावतारणार्थ दीक्षाविधानमिव प्रतिक्रमणकारणमपि युक्तमेव, अप्रतिपन्नान्यतरव्रतस्यापि च तस्य तदतिचारोचारणतोऽश्रद्धानादिविषयस्य प्रतिक्रमणस्यानुमतत्वाद, यत उक्तम्-“पडिसिद्धाणं करणे, किच्चाणमकरणे(अ)पडिक्कमणं । असद्दहणे अतहा, विवरीअपरूवणाए अ॥१॥" अत एव साधुरप्रतिपन्नाखप्युपासकभिक्षुप्रतिमासु 'एगारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं' इत्येवं प्रतिक्रामन् भणति । ननु यद्येवं तदा साधुप्रतिक्रमणसूत्रेणैव प्रतिक्रामतु?, इति चेदनुमतमेतत्, को वा किमाह ? केवलं श्रावकप्रतिक्रमणसूत्रमणुव्रतादिविषयस्य प्रतिषिद्धाचरणस्य प्रपश्चाभिधायकत्वेन सोपयोग
॥२२१॥ तरमिति तेन ते प्रतिक्रामन्तीति पञ्चाशकवृत्तौ । न चावश्यकर्त्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य
Jain Education International
For Private & Personel Use Only
a
rjainelibrary.org