________________
Jain Education
कायोत्सर्ग इत्यादि हेतुः सम्भाव्यः, पारयित्वा च तस्याः स्तुतिं पठति 'सुअदेवया भगवई' इत्यादि, अन्येन दीयमानां वा शृणोति । एवं क्षेत्रदेवताया अपि स्मृतिर्युक्तेति तस्याः कायोत्सर्गानन्तरं तस्या एव स्तुतिं भणति, यच्च प्रत्यहं क्षेत्रदेवतायाः स्मरणं तत्तृतीयत्रतेऽभीक्ष्णावग्रह्याचनरूपभावनायाः सत्यापनाथै सम्भाव्यते । ततः पञ्चमङ्गलभणनपूर्व सन्दंशकं प्रमृज्योपविशति, ततो मुखवस्त्रिकां कार्यं च प्रति| लिख्य श्रीगुरूणां वन्दनके दत्त्वा 'इच्छामो अणुसट्ठि' मिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्वेतिपूर्वकं स्तुतित्रयं पठति । इदं च पूर्वोक्तवन्दनकदानं श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्मा - कमाज्ञया प्रतिक्रान्तमिति विज्ञपनार्थ, लोकेऽपि राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निगद्यते, एवमिहापि ज्ञेयम् । एतदर्थश्चायं 'इच्छामः' अभिलषामः, 'अनुशास्ति' गुर्वाज्ञां, प्रतिक्रमणं कार्यमित्येवंरूपां च वयं कृतवन्तः खाभिलाषपूर्वकं नतु राजवेष्ट्यादिना । इत्थं संभावनाविधानं च 'इच्छामो अणुसट्ठिी' मिति प्रणामानन्तरं श्रीगुरूणामादेशस्य श्रवणात् । एवं च प्रतिक्रमणं सम्पूर्ण जातं । तत्सम्पूर्णीभवनाच्च सम्पन्न निर्भर प्रमोदद्मसराकुलवर्द्धमानखरेण वर्द्धमानाक्षरं तीर्थनायकत्वात् श्रीवर्द्धमानस्य स्तुतित्रयं 'नमोऽस्तु वर्द्धमानायें' त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुतौ पाक्षिकप्रतिक्रमणे तु श्रीगुरुपर्वणोर्विशेषवहुमानसूचनार्थं तिसृष्वपि स्तुतिषु भणितासु सतीषु सर्वे साधवः श्राद्धाश्च युगपत्पठन्ति । 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ १ ॥ इत्याद्युक्तेः स्त्रीणां सं
For Private & Personal Use Only
jainelibrary.org