________________
धर्म
॥ २१४ ॥
Jain Education
स्कृतेऽनधिकारत्वसूचनात्साध्व्यः श्राविकाश्च नमोऽर्हत्सिद्धेत्यादि सूत्रं न पठन्ति, नमोऽस्तु वर्द्धमानायेत्यादिस्थाने संसारदावानलेत्यादि च पठन्ति, रात्रिकप्रतिक्रमणे तु विशाललोचनेत्यादिस्थाने । केचित्तु स्त्रीणां पूर्वाध्ययनेऽनधिकारित्वात् नमोऽस्तु वर्द्धमानेत्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान्न पठन्तीत्याहुः । यच श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्तं 'नमो खमासमणाणं' इति गुरुनमस्कारः साधुश्राद्धादिभिर्भण्यते, तन्नृपाद्यालापेषु प्रतिवार्त्ताप्रान्तं जीवेत्यादिभणनवत् श्रीगुरुवचः प्रतीच्छादिरूपं सम्भाव्यते । स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः, तत उदारखरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनसः कृताञ्जलयः शृण्वन्ति, स्तवनभणनानन्तरं च सर्वजिनस्तुतिरूपं वरकनकेत्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते, अत्र च देवगुरुवन्दनं नमोऽर्हत्सि डेत्यादेरारभ्य चतुःक्षमाश्रमणप्रदानं यावत् ज्ञेयं, श्राद्धस्य तु (' अड्डाइजेसु) इत्यादि भणनावधि ज्ञेयं । इदं च देवगुरुवन्दनं प्रतिक्रमणस्य प्रारम्भे अन्ते च कृतं 'आद्यन्तग्रहणे मध्यस्यापि ग्रहण' मिति न्यायात् सर्वत्राप्यवतरतीति, यथा शक्रस्तवस्यादावन्ते नमो इति भणनं । ततोऽपि 'द्विर्बद्धं सुबद्धं भवती' तिन्यायेन पूर्व चारित्राद्याचारशुद्ध्यर्थं कृतेष्वपि कायोत्सर्गेषु पुनः प्राणातिपातविरमणाद्यतिचाररूपदैवसिकप्रायश्चित्तविशोधनार्थं चतुश्चतुर्विंशतिस्तवचिन्तनरूपं का योत्सर्ग कुरुते, अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित्प्रतिक्रमणस्यादौ कैश्चित्त्वन्ते क्रियते । तदनु तथैव पारयित्वा चतुर्विंशतिस्तवं च मङ्गलार्थं पठित्वा क्षमाश्रमणद्वयपूर्व मण्डल्यामुपविश्य सावधानमनसा खा
For Private & Personal Use Only
संग्रह.
॥ २१४ ॥
jainelibrary.org