________________
धर्म
॥ २१३ ॥
Jain Education In
त्पूर्वं दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्पन्नत्वेनासन्नोपकारित्वाच्छ्री ऋषभादिस्तुतिरूपं चतुर्विंशतिस्तवं 'स व्वलोए अरिहंतचेइयाण' मित्यादि सूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं क रोति । तं च तथैव पारयित्वा सामायिकादिचतुद्देशपूर्व पर्यन्तश्रुतज्ञानाचारविशुद्ध्यर्थं 'पुक्खरवरदी वड्डे' इत्यादिसूत्रं 'सुअस्स भगवओ करेमि काउस्सग्ग' मित्यादि च पठित्वैकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गे कुर्यात् । पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचारसमाचरणफलभूतानां सिडानां 'सिद्धाणं | बुद्धाण' मिति स्तवं पठति । इह च चतुर्विंशतिस्तवद्वयचिन्तनरूपोऽयं द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः, एकस्य चारित्राचारशुद्धिहेतुकस्य [दिवसातिचारचिन्तनार्थ] प्राकृतत्वात्, 'दुन्नि अति चरित्ते, दंसणनाणे अ इक्किको" इति वचनात्, अस्मिंश्च पूर्वोक्तयुक्तया चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्या | दिना चतुर्विंशतिस्तवद्वयचिन्तनं सम्भाव्यते, नाग्रेतनयोः तृतीयचतुर्थयोर्दर्शनाचारज्ञानाचारविशुद्धिहेतुकयोरिति स्थितम् । अथ सिद्धस्तवपठनानन्तरं आसन्नोपकारित्वात् श्रीवीरं वन्दते, ततो महातीर्थत्वादिनोजयन्तालङ्करणं श्रीनेमिं ततोऽपि चाष्टापद्नन्दीश्वरादिबहुतीर्थनमस्काररूपां 'चत्तारि अट्ठदसे त्यादिगाथां | पठति । एवं चारित्राद्याचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थं 'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थे'त्यादि च पठित्वा श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतुत्वेन श्रुतदेवताकायोत्सर्ग कुर्यात्, तत्र च नमस्कारं चिन्तयति, देवताद्याराधनस्य खल्पयत्नसाध्यत्वेनाष्टोच्छ्वासमान एवायं
For Private & Personal Use Only
संग्रह.
॥ २१३ ॥
Jainelibrary.org