________________
त्यर्थ इत्युक्तं प्रवचनोद्धारवृत्तौ। ततश्च कायोत्सर्गकरणार्थ पडिक्कमणे १ सज्झाए २, काउसस्गावराह ४ पाहुणए' इत्यादिवचनाबन्दनकदानपूर्वकं भूमि प्रमृज्य 'जे मे केइ कसाया' इत्याचक्षरसूचितं कषायचतुष्टयात्प्रतीपंक्रमणमनुकुर्वन्निव पाश्चात्यपदैरवग्रहाद्वहिनि मृत्य 'आयरिअउवज्झाए' इत्यादि सूत्रं पठति । तत्राद्यश्चारित्रशुद्धये कायोत्सर्गो विधीयते, चारित्रं च कषायविरहेण शुद्धं भवति, तदभावे तस्यासारत्वात् । |उक्तंच-"सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा हुँति । मन्नामि उच्छुपुप्फ व, निप्फलं तस्स सामण्णं ॥१॥ ततश्च चारित्रप्रकर्षकृते कषायोपशमाय च 'आयरिअउवज्झाए' इत्यादि गाथात्रयं पठित्वा चारित्रातिचाराणां 'पडिकमणासुद्धाण'मितिवचनात् प्रतिक्रमणेनाशुद्धानां शुद्धिनिमित्तं कायोत्सर्ग चिकीर्षुः 'करेमि भंते ! सामाइअ' मित्यादि सूत्रत्रयं च पठित्वा कायोत्सर्ग करोति, सामायिकसूत्रं च सर्व धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलमिति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुनस्तत्स्मृत्यर्थमुच्चार्यमाणं गुणवृद्धये एव, आह च-"आइमकाउस्सग्गे, पडिक्कमंतो अकाउ सामइ। तो किं करेइ बीअं, तइअं च पुणोवि उस्सग्गे? ॥१॥ समभावंमि ठिअप्पा, उस्सग्गं करिअ तो अ पडिकमइ । एमेव य समभावे, ठिअस्स तइअंपि उस्सग्गे ॥२॥ सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं। संतगुणकित्तणेसुं, न हुँति पुणरुत्तदोसा उ॥३॥” इति । कायोत्सर्गे च 'चन्देसु निम्मलयरा इत्यन्तं चतुर्विशतिस्तवद्रयं चारित्राचारविशुद्ध्यर्थ चिन्तयति, पारयित्वा च कायोत्सर्ग सम्यग्दर्शनस्य सम्यग्ज्ञानहेतुत्वाज्ज्ञानाद्दर्शनं गरिष्ठमिति ज्ञानाचारा
in Educatan
For Private & Personel Use Only
Sm.jainelibrary.org