________________
धर्म
॥ २१२ ॥
Jain Education
***
कर्त्तव्यमित्यादौ स पठ्यते, समभावस्थेन च प्रतिक्रमितव्यमित्यतः सामायिकसूत्रं भण्यते, तदनन्तरं दैवसिकाद्यतीचाराणामोघालोचनार्थ 'इच्छामि पडिक्कमिडं जो मे देवसिअ अइआरो कओ' इत्यादि भण्यते, त दनु श्राद्धप्रतिक्रमणसूत्रं पठ्यते, यावत् 'तस्स धम्मस्स' इति । साधुस्तु सामायिकसूत्रानन्तरं मङ्गलार्थे 'च तारि मङ्गलं' इत्यादि भणति, तत ओघतोऽतीचारालोचनार्थं 'इच्छामि पडिक्कमिउं' इत्यादि, विभागालोचनार्थे तु तदनु ईर्यापथिकीं, ततश्च शेषाशेषातीचारप्रतिक्रमार्थं मूलसाधुप्रतिक्रमणसूत्रं पठति, आचरणादिनैव चेयं भिन्ना रीतिः । प्रतिक्रमणसूत्रं च तथा भणनीयं यथा स्वस्य [पठतः शृण्वतां च] परेषां संवेगभराद्रोमाञ्चो भवति, तदुक्तं दिनचर्यायाम् - "पभणंति तहा सुत्तं, न केवलं तेसि तहव अन्नेसिं । जह नयणजललवेणं, पए पए हुन्ति रोमंचो (चा) ॥ १ ॥” तदनु सकलातीचारनिवृत्त्याऽपगततद्भारो लघुभूत उत्तिष्ठति, एवं द्रव्यतो भावतश्चोत्थाय अन्भुट्ठिओमीत्यादिसूत्रं प्रान्तं यावत् पठति । ततः प्रतिक्रान्तातीचारः श्रीगुरुषु स्वकृतापराधक्षमणार्थ वन्दनकं ददाति प्रतिक्रमणे हि सामान्यतश्चत्वारि वन्दनकानि द्विकरूपाणि स्युः, तत्र प्रथममालोचनवन्दनकं १, द्वितीयं क्षमणकवन्दनकं २, तृतीयमाचार्यादिसर्वसङ्घस्य क्षमणकपूर्वमाश्र यणाय ३, चतुर्थ प्रत्याख्यानवन्दनकमिति ४ । ततो गुरून् क्षमयति पूर्वोक्तविधिना, तत्र पञ्च (त्रि)कमध्ये तु ज्येष्ठमे वैकम्, आचीर्णाभिप्रायेणेदमुक्तं, अन्यथा तु गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षमयेत्, पञ्चप्रभृतिषु सत्सु त्रीन् गुरुप्रभृतीन् क्षमयेत्, इदं च वन्दनकम् 'अल्लिआवणवंदणयं' इत्युच्यते, आचार्यादीनामाश्रयणाये
For Private & Personal Use Only
संग्रह.
॥ २१२ ॥
w.jainelibrary.org