________________
दीनां किमपि विज्ञप्यं मनसा संप्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते इति । ततश्च नमस्कारपूर्व कायोत्सर्ग पारयित्वा चतुर्विशतिस्तवं पठेत्, तदनु जानुपाश्चात्यभागपिण्डिकादि प्रमृज्योपविश्य च श्रीगुरूणां | वन्दनकदानार्थ मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात्, एतद्वन्दनकं च कायोत्सर्गावधारितातीचारालोचनार्थ, ततश्च सम्यगवनताङ्गः पूर्व कायोत्सर्गे खमनोऽवधारितान् दैवसिकातीचारान् 'इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि' इत्यादि सूत्रं चारित्रविशुदिहेतुकमुच्चरन् श्रीगुरुसमक्षमालोचयेत् । एवं दैवसिकातीचारालोचनानन्तरं मनोवचनकायसकलातीचारसंग्राहकं 'सव्वस्सवि देवसिय' इत्यादि पठेत्, 'इच्छाकारेण संदिसह भगवन् !' इत्यनेनानन्तरालोचितातीचारप्रायश्चित्तं च मार्गयेत्, गुरवश्च 'पडिक्कमह' इति प्रतिक्रमणरूपं दशविधप्रायश्चित्ते द्वितीयं प्रायश्चित्तमुपदिशन्ति, तच मिथ्यादुष्कृतादिरूपं, उक्तं च-"पडिकमणं १ पडियरणा २ पडिहरणा ३ वारणा ४ निअत्ती ५ य।निंदा ६ गरहा ७ सोही ८ पडिक्कमणं अट्ठहा होइ॥ १॥" प्रथमप्रायश्चित्तं त्वालोचनारूपं प्राक् |कृतमेव, गुरवः संज्ञादिना प्रायश्चित्तं ते नतु पडिक्कमह भाषन्ते इत्युक्तं दिनचर्यायां, तथा च तद्गाथा"गंभीरिमगुणनिहिणो, मणवयकाएहिं विहिअसमभावा । पडिक्कमहत्ति न जंपइ, भणंति तं पइ गुरू रुहा ॥१॥” रुष्टा इ [व भणन्ती] त्यर्थः । ततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्थाप्रसङ्गभीतेन पदे पदे संवेगमापद्यमानेन दंशमशकादीन् देहेऽगणयता श्राद्धेन सर्व पञ्चपरमेष्ठिनमस्कारपूर्व कर्म
M
For Private Personal Use Only
Jain Education
ainelibrary.org
a l