Book Title: Dharm Pariksha Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 277
________________ ૨૧૨ टीडा : एतेन - आभोगमूलाऽऽभोगपूर्विका च जीवविराधना विनापराधं मिथ्यादृशोऽपि प्रायो ऽनार्यजनस्यैव भवति, सा च नावश्यंभाविनी, प्रायः संभविसंभवात्, संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तरादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थुत्पत्तिमात्रेणापि तत्र निदानं तावदाभोगाऽनाभोगावेव । तत्र यद्यपि संयतानामुभयत्रापि जीवविराधनाऽनाभोगादेव, तथापि स्थावरसूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वांशैरपि सर्वकालीन न पुनः क्वाचित्कः कादाचित्कश्च तस्य चापगमः प्रयत्नशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात्, शक्यश्च कुन्थ्वादिस्थूलत्रसजीवविषयकस्यानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुः साधमिति संयमो दुराराधो भणितः, एवं सम्यक् प्रयत्नपरायणानामपि कदाचित् कुन्थ्वादिस्थूलत्रसजीवविराधना स्यात् सा च प्रायोऽसम्भविसंभवेनावश्यंभाविनीति वक्तव्यम्, शक्यपरिहारजीव - विषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात् । धर्मपरीक्षा भाग - २ | गाथा-43 साप्यवश्यंभाविनी विराधना द्वेधा - अनाभोगमूला अनाभोगपूर्विका, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्या जीवघाते जाते सत्येव तत्परिज्ञानाद् । द्वितीया तु निम्नप्रदेशादौ पिपीलिकादिकमदृष्ट्वैवोत्पाटिते पादे दृष्ट्वापि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानत्वात्, परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तज्जन्यकर्मबन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्कर्त्तुर्हिंसाव्यपदेशहेतुत्वात्, तथाव्यपदेशः स्थूलत्रसजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् न चैवं केवलिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याश्छद्यस्थसाक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात्, अत एवाब्रह्मसेवायामनेकशतसहस्रपञ्चेन्द्रियजीवविराधकोऽपि देशविरतिश्रावको 'जीवविराधकः' इति व्यपदेशविषयो न भवति, भवति चैकस्या अपि पिपीलिकाया विराधनेऽनाभोगेनापि, आभोगे च स्वज्ञातिज्ञातेऽपांक्तेयोऽपि स्यात्, तेन निजसाक्षात्कारविषयीभूताऽविषयीभूतयोर्जीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्याधादिभ्योऽपि जीवघातकत्वेनाधिको वक्तव्यः स्यात् इत्यादि परस्य कल्पनाजालमपास्तं, संयतानां नद्युत्तारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवाऽदुष्टत्वात् । अर्थ : एतेन . } अदुष्टत्वात् । खाना द्वारा=पूर्वमां स्थापन र्यु डे साधुने नही तरवामां आलोगपूर्वऽनी ત્રસ જીવોની હિંસા છે છતાં યતનાપરાયણ સાધુનું ઘાતક ચિત્ત નથી એના દ્વારા, પૂર્વપક્ષીની કલ્પનાજાલ અપાસ્ત છે એમ આગળ અન્વય છે. .....

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326