Book Title: Dharm Pariksha Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 294
________________ धर्मपरीक्षा भाग -२ / गाथा-43 जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद्, एतेन 'जीवविराधनापि यदि निर्जरां प्रति कारणं भवेत्, तर्हि तथाभूतापि विराधना तपः संयमादिवद् भूयस्येव श्रेयस्करी, भूयोनिर्जराहेतुत्वाद्,' इति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात्, न चैवं जीवविराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जरायाः प्रतिबन्धकत्वात् प्रतिबन्धकं च यथायथाऽल्पमसमर्थं च तथा तथा श्रेयः, तेन तस्याः कारणत्वं प्रतिबन्धकाभावत्वेन, प्रतिबन्धकाभावस्य च भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद्, अन्यथा ‘तदभावस्य कारणता न स्याद्' इत्यादिकूटकल्पनारसिकेणोच्यते, तदसत्, निश्चयतः सर्वत्र संयमप्रत्ययनिर्जरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात्, तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे बाधकाभावात्, 'जे आसवा ते परिस्सवा' इत्यादिवचनप्रामाण्यात् । निमित्तकारणोत्कर्षापकर्षी च न कार्योत्कर्षापकर्षप्रयोजकौ, इति न निर्जरोत्कर्षार्थं तादृशहिंसोत्कर्षाश्रयणापत्तिः यच्च 'जा जयमाणस्स० ' इत्यादिवचनपुरस्कारेण वर्जनाभिप्रायेणानाभोगजन्याऽशक्यपरिहारहिंसायाः प्रतिबन्धकाभावत्वेन कारणत्वाभिधानं तत्तु तद्वृत्त्यर्थानाभोगविजृम्भितं, तत्रापवादप्रत्ययाया एव हिंसाया व्याख्यानात् । तथाहि -'यतमानस्य सूत्रोक्तविधिसमग्रस्य=सूत्रोक्तविधिपरिपालनपूर्णस्य, अध्यात्मविशोधियुक्तस्य = रागद्वेषाभ्यां रहितस्येति भावः, या भवेद्विराधनाऽपवादपदप्रत्यया सा भवति निर्ज्जराफला । इदमुक्तं भवति - कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवादपदमासेवमानस्य या विराधना सा सिद्धिफला भवति' इति पिण्डनिर्युक्तिवृत्तौ, न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा, किन्तु ज्ञानपूर्वकत्वेनर्जुसूत्रनयमतेन विलक्षणैव सती व्यवहारनयमन च विलक्षणकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुः, घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे । अत एवेयमनुबन्धतोऽहिंसारूपा सत्यैदम्पर्यार्थापेक्षया 'न हिंस्यात् सर्वाणि भूतानि ' इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद्, विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् । टीडार्थ : - यत्तु . मोक्षफलत्वात् । ने वजी पूर्वपक्षी हे छे ते असत् छे तेम खागण अन्वय छे. પૂર્વપક્ષી શું કહે છે ? તે બતાવે છે ૨૭૯ જીવઘાતના વર્જનના અભિપ્રાયવાળા યતનાથી પ્રવર્તમાન છદ્મસ્થસંયતોને અનાભોગજન્ય અશક્યપરિહારથી થનાર જીવઘાત, અમૃતભાષણ આદિ સંયમના પરિણામના અનપાયનો=અનાશનો, હેતુ છે, =િજે કારણથી, વર્જનાદિ અભિપ્રાય ઔપાધિક જ સંયમના પરિણામના અનપાયનું હેતુપણું

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326