Book Title: Dharm Pariksha Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૮૮
धर्मपरीक्षा भाग-२ | गाथा-43 इत्यादि, तत्तस्माद् विधिना=जिनोपदेशेन यतितव्यं-इत्येवं महावाक्यार्थस्य प्राक्चालितप्रत्यवस्थानरूपस्य रूपं तु स्वभावः पुनः ।। महावाक्यार्थमेव गाथापूर्वार्धेनोपसंहरन्नैदम्पर्यमाह - एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपज्जं एवं आणा धम्मम्मि सारो त्ति ।।८६८ ।। एवं विधिना यत्ने क्रियमाणे, एषाऽहिंसा अनुबन्धभावत-उत्तरोत्तरानुबन्धभावान्मोक्षप्राप्तिपर्यवसानानुगमात्, तत्त्वतः परमार्थतः, कृता भवति, मोक्षमसम्पाद्य जिनाज्ञाया उपरमाभावादिति ऐदम्पर्यमेतदत्र यदुताज्ञा धर्म सारः । इतिः परिसमाप्ताविति ।।'
प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने, केवलायास्तस्याः प्रतिबन्धकत्वाभावाज्जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे, विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे, विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि संभवाज्जीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येत, इत्यहो ! काचनापूर्वेयं तर्कागमचातुरी, वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिका इति चेत् ? किमेतद्विराधनापदप्रवृत्तिनिमित्तमुत विशेषणं विराधनापदार्थस्य? आद्ये 'पदप्रवृत्तिनिमित्तं नास्ति, पदार्थश्च प्रतिपाद्यते' इत्ययमुन्मत्तप्रलापः अन्त्ये च विशिष्टप्रतिबन्धकत्वपर्यवसाने उक्तदोषतादवस्थ्यं, इति मुग्धशिष्यप्रतारणमात्रमेतत् न च 'यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिः' इति नियमाद् ‘वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति' इति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यते, इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वं स्वरूपेणैवाक्षतं इत्यपि युक्तं, प्रकृतविराधनाव्यक्तौ जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद् अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्यापि तद्धानस्यानुपपत्तेः । अथ - वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाऽकल्पनाल्लाघवमेव - इति चेत् ? न, वर्जनाभिप्रायमात्रस्याज्ञाबाह्यानुष्ठानेऽपि सत्त्वान्नोत्तेजकत्वं, इत्याज्ञाशुद्धभावस्येहोत्तेजकत्वं वाच्यं, स च विशिष्टनिर्जरामात्रे स्वतन्त्रकारणं इति न तत्रास्ये(तस्य)होत्तेजकत्वं युज्यते, अन्यथा दण्डाभावविशिष्टचक्रत्वादिनापि घटादौ प्रतिबन्धकता कल्पनीया स्याद्, इति न किञ्चिदेतत् । तस्मादाज्ञाशुद्धभाव एव सर्वत्र संयमरक्षाहेतुर्न त्वनाभोगमात्रम्, इति नद्युत्तारेऽपि यतीनां तत एवादुष्टत्वं, न तु जलजीवानाभोगादिति स्थितम् ।।५३।।

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326