Book Title: Dharm Pariksha Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 287
________________ ૨૭૨ धर्मपरीक्षा भाग-२/गाथा-43 एतवृत्तिर्यथा-ये केचन क्षुद्रकाः सत्त्वाः प्राणिनः एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां च क्षुद्रकाणामल्पकायानां, कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यश्वादयस्तेषां च व्यापादने सदृशं वैरमिति वज्रं-कर्म विरोधलक्षणं वा वैरं, सदृशं समानं, तुल्यप्रदेशत्वात् सर्वजन्तूनां, इत्येवमेकान्तेन नो वदेत् । तथा विसदृशमसदृशं, तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशत्वात्, सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरं' इत्येवमपि नो वदेत् । यदि हि वध्यापेक्षयैव कर्मबन्धः स्यात्, ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते, न च तद्वशादेव बन्धः, अपि त्वध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वैरं, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति, एतदेव सूत्रेणैव दर्शयितुमाह-एतेहीत्यादि । आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वविसदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते । तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव कर्मबन्धस्य कारणं, अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि, तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति, तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति । तथाहि-यज्जीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते तदयुक्तं, यतो न हि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि त्विन्द्रियादिव्यापत्त्या तथा चोक्तं पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ।। इत्यादि । अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः । तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति तथापि न वैरानुषङ्गीभवेद्, भावदोषाभावाद् अपरस्य तु सर्पबुद्ध्या रज्जुमपि घ्नतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे 'उच्चालिअंमि पाए०' (ओ. नि. ७४८/७४९) इत्यादि । तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव, तदेवंविधवध्यवधकभावापेक्षया स्यात्सदृशत्वं, स्यादसदृशत्वमिति, अन्यथाऽनाचार ।।' इति ।। एतेन “लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरि"ति परस्य यत्र तत्र प्रलपनमपास्तम् अपि चैवमापवादिकोऽपि वधो महानाय संपद्यते, ज्ञानादिहानिनिवारणमात्राभिप्रायस्य संयमपरिणते(रन)पायहेतुत्वेऽपि तत्कृतवधे लौकिकपातकत्वव्यवहारविषयत्वेनाशुद्धत्वानिवृत्तेः । पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं बृहत्कल्पभाष्ये - गीयत्थो जयणाए कडजोगी कारणमि णिद्दोसो । एगेसिं गीयकडो अरत्तदुट्ठो य जयणाए ।।४९४६।।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326