________________
૨૭૨
धर्मपरीक्षा भाग-२/गाथा-43
एतवृत्तिर्यथा-ये केचन क्षुद्रकाः सत्त्वाः प्राणिनः एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां च क्षुद्रकाणामल्पकायानां, कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यश्वादयस्तेषां च व्यापादने सदृशं वैरमिति वज्रं-कर्म विरोधलक्षणं वा वैरं, सदृशं समानं, तुल्यप्रदेशत्वात् सर्वजन्तूनां, इत्येवमेकान्तेन नो वदेत् । तथा विसदृशमसदृशं, तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशत्वात्, सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरं' इत्येवमपि नो वदेत् । यदि हि वध्यापेक्षयैव कर्मबन्धः स्यात्, ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते, न च तद्वशादेव बन्धः, अपि त्वध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वैरं, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति, एतदेव सूत्रेणैव दर्शयितुमाह-एतेहीत्यादि । आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वविसदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते । तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव कर्मबन्धस्य कारणं, अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि, तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति, तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति । तथाहि-यज्जीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते तदयुक्तं, यतो न हि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि त्विन्द्रियादिव्यापत्त्या तथा चोक्तं
पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ।। इत्यादि ।
अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः । तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति तथापि न वैरानुषङ्गीभवेद्, भावदोषाभावाद् अपरस्य तु सर्पबुद्ध्या रज्जुमपि घ्नतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे 'उच्चालिअंमि पाए०' (ओ. नि. ७४८/७४९) इत्यादि । तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव, तदेवंविधवध्यवधकभावापेक्षया स्यात्सदृशत्वं, स्यादसदृशत्वमिति, अन्यथाऽनाचार ।।' इति ।।
एतेन “लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरि"ति परस्य यत्र तत्र प्रलपनमपास्तम् अपि चैवमापवादिकोऽपि वधो महानाय संपद्यते, ज्ञानादिहानिनिवारणमात्राभिप्रायस्य संयमपरिणते(रन)पायहेतुत्वेऽपि तत्कृतवधे लौकिकपातकत्वव्यवहारविषयत्वेनाशुद्धत्वानिवृत्तेः । पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं बृहत्कल्पभाष्ये - गीयत्थो जयणाए कडजोगी कारणमि णिद्दोसो । एगेसिं गीयकडो अरत्तदुट्ठो य जयणाए ।।४९४६।।