Book Title: Bhairav Padmavati Kalp
Author(s): K V Abhyankar, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४ श्रीलघुशान्तिस्तवः ।
[ परि० ३१ सलिलानलविषविषधरदुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारीचौरेतिश्वापदादिभ्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं कुरु कुरु शान्ति च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ॥१३॥ युग्मम् ॥ भगवति ! गुणवति ! शिवशान्तितुष्टिपुष्टिस्वस्तीह कुरु कुरु जनानाम् ।
ओ मिति नमो नमो हाँ ही हूँ हः यः क्षः ह्रीं फट् फट् स्वाहा ॥१४॥ जयेन युक्ता देवी जयदेवी तस्या आमन्त्रणम् । त्वं विजयस्व-सर्वोत्कर्षेण इत्यर्थः । जया सूचितेत्यनेन ॥११॥ अत्रापि गाथायुग्मेन सम्बन्धः।
अथ इत्यानन्तर्ये । त्वं रक्ष रक्ष-पाहि पाहि, मन्त्राक्षरत्वाद् द्विरुच्चारोऽत्र । कस्मात् ?, केभ्यः ? सलिलं-जलम् , समुद्रादि, अनल:-अर्थाद् उत्पातदावानलादिरूपो वह्निः, विषं-जङ्गमस्थावरभेदाद् द्विधा, विषधरः-सर्पः, दुष्टा ग्रहगोचरेऽशुभाः ग्रहाः, रोगेषु राजा राजरोगः-क्षयरोगः, राजदन्तादिवत् अमाद्यन्तस्य परत्वम् । अथवा राजानोऽन्यायिनः, रोगाः कुष्ठज्वरादयः, रणः-सङ्ग्रामः ततो द्वन्द्वः तेषां भयम् , तस्माद् । राक्षसाः-व्यन्तरविशेषाः, रिपुगणाः-वैरिसमूहाः, मारी-मरकोपद्रवः।
अत्र मात्राहानिभयान्मारीशब्द ईकारान्तः, न विकारान्तः।
'मारी चण्ड्यां जनक्षये' इति हैमानेकार्थ (श्लो० ४५३) पाठात् । चौराः-तस्कराः, 'इङ् गतौ' इयन्ते-आभिः अयनानि वा 'स्त्रियां क्तिः' ( अ०५ पा० ३ सू०९१ ) इति ईतयः। ताः सप्तविधाः अतिवृष्ट्यादयः । श्वापदाः-व्याघ्रसिंहगन्धगजादयः, आदिशब्दात् भूतवैतालशाकिन्यायः ततो द्वन्द्वः तेभ्यः ॥१२॥
सुशिवं-शोभनं कल्याणम् पुण्यसम्बन्धि, च पुनः, स्वस्ति-सङ्घाय अविनाशित्वम् चिरस्थायित्वम्, कुरु कुरु इति भावः । प्रयत्नोच्चारमन्तरेण क्वचित् संयोगपूर्वस्य गुरोरपि लघुत्वम् । तथा 'कुरु कुरु स्वस्ति' इत्यत्रापि मात्रा गणभङ्गप्रसङ्गभयात्, यदुक्तम्-तव यापहियो मम हीरभूत् ( )। इत्यादि दर्शनात् । अन्ये त्वाहुः-'कुरु कुरु स्वस्ति' मौले पाठे अव्ययं सम्भाव्यते । अत्र तु इकारान्तः शद्ध एव । अन्यत्रापि 'स्वस्तये' इति पददर्शनात् ॥१३॥ __हे भगवति ! हे गुणवति ! गुणाः औदार्यधैर्यगाम्भीर्यादयः सन्त्यस्या इति गुणवती तस्याः आमन्त्रणम् । इह जगति सङ्घ वा जनानां-लोकानां शिवशान्तितुष्टिपुष्टिस्वस्ति कुरु कुरु । पश्चानामपि पदानां पूर्वोक्तोऽर्थो वाच्यः, ततो द्वन्द्वः । स्वस्ती तीङन्तः शद्बोऽत्र ।
For Private And Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307