Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 741
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // अथ स्वरप्रकरणम् / 3650 / अनुदात्तं पदमेकवर्जम् (6-1-158) / परिभाषेयम् स्वरविधिविषया। यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् / 'गोपायतै नः' / अत्र ‘सनाद्यन्ताः-' (सू 2304) इति धातुत्वे धातुस्वरेण यकार:कार उदात्तः शिष्टमनुदात्तम् / 'सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्'। (वा 3730) तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते / 'अन्यत्र' इति किम् / 'यज्ञं यज्ञमभिवृद्धे गृणीतः' / अत्र सति शिष्टोऽपि 'ना' इत्यत्र स्वरो न शिष्यते किंतु तस एव // 3651 / अनुदात्तस्य च यत्रोदात्तलोपः / (6-1-161) / यस्मिन्ननुदात्ते पर उदात्तो लुप्यते तस्योदात्तः स्यात् / 'देवीं वाचम्' / अत्र डीबुदात्तः // 3652 / चौ (6-1-222) / लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् / उदात्तनिवृत्तिस्वरापवादः / 'देवदीची नयथ देवयन्तः / 'अतद्धित इति वाच्यम' (वा 3789) / दाधीचः। माधचः। प्रत्ययस्वर एवात्र // 3653 / आमन्त्रितस्य च (6-1-198) / आमन्त्रितविभक्त्यन्तस्यादिरुदात्तः स्यात् / 'अग्न इन्द्र वरुण मित्र दे॒वाः' // 3654 / आमन्त्रितस्य च (8-1-19) पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् / प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः / ‘इमं में गङ्गे यमुने सरस्वति' / 'अपादादौ' किम् / 'शुतुद्रि स्तोमम्' / 'आमन्त्रितं पूर्वमविद्यमानवत्' (सू 412) / 'अग्न इन्द्र' अत्रेन्द्रादीनां निघातो न, पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् / 'नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' (सू 413) / समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न / 'अग्ने तेजस्विन्' / अग्ने त्रातः' / सामान्यवचनं किम् / पर्यायेषु मा भूत् / 'अन्य देवि सरस्वति' // 3655 / सामान्यवचनं विभाषितं विशेषवचने (8-1-74) / अत्र भाष्यकृता बहुवचनमिति पूरितम् / सामान्यवचनमिति च पूर्वसूत्रे योजितम् / आमन्त्रितान्ते विशेषणे परे पूर्व बहुवचनान्तमविद्यमानवद्वा / 'देवी': षळुर्वीरुरु नः कृणोत' / अत्र देवीनां विशेषणं षडिति / 'देवाः शरण्याः' / इह द्वितीयस्य निघातो वैकल्पिकः // 3656 / सुबामन्त्रिते पराङ्गवत्स्वरे (2-1-2) / सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्यात्स्वरे कर्तव्ये / 'द्रवत्पाणी शुभस्पती' / शुभ इति शुभेः क्विबन्तात् षष्ट्यन्तम् / तस्य परशरीरानुप्रवेशे षाष्टिकमामन्त्रितायुदात्तत्वम् / न चाष्टमिको निघातः शङ्कयः / पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् / यत्त दिवो दुहितर्मर्तृभोजनम् / इह दिवःशब्दस्याष्टमिको निघातः / परशुना वृश्चन्' / 'षष्ठ्यामन्त्रितकारकवचनम् ' (वा 1223) / षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः / तेनेह न / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803