Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 745
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / मतोः पूर्वमात्संज्ञायां स्त्रियाम् (6-1-219) मतोः पूर्वमाकार उदात्तः स्त्रीनानि / उदुम्बरावती / शरावती // 3706 / अन्तोऽवत्याः (6-1-220) / अवतीशब्दस्यान्त उदात्तः। वेत्रवती / डीपः पित्त्वादनुदात्तत्वं प्राप्तम् // 3707 / ईवत्याः (6.1-221) / ईवत्यन्तस्यापि प्राग्वत् / अहीवती। मुनीवती॥ अथ फिटसूत्राणि / 1. 'फिषोऽन्त उदात्तः' / प्रातिपदिकं फिट / तस्यान्त उदात्तः स्यात् / उच्चैः // 2. 'पाटलापालङ्काम्बासागरार्थानाम् ' / एतदर्थानामन्त उदात्तः / 'पाटला' ‘फलेरुहा' 'सुरूपा' 'पाकला' इति पर्यायाः / 'लघावन्ते-' इति प्राप्ते / 'अपालङ्क' 'व्याधिघात' 'आरेवत' 'आरग्वध, इति पर्यायाः / अम्बार्थः / माता / 'उनर्वनन्तानाम्' इत्याद्युदात्तत्वे प्राप्ते / सागरः। समुद्रः // 3. 'गेहार्थानामस्त्रियाम्'। गेहम् / 'नविषयस्य-' इति प्राप्ते / 'अस्त्रियाम्' किम् / शाला / आधुदात्तोऽयम् / इहैव पर्युदासाज्ज्ञापकात् // 4. 'गुदस्य च' / अन्त उदात्तः स्यान्न तु स्त्रियाम् / गुदम् / 'अस्त्रियाम्' किम् ‘आन्त्रेभ्यस्ते गुदाभ्यः' / 'स्वाङ्गशिटामदन्तानाम्' इत्यन्तरङ्गमायुदात्तत्वम् / ततष्टाप् // 5. ‘ध्यपूर्वस्य स्त्रीविषयस्य' / धकारयकारपूर्वो योऽन्योऽच्स उदात्तः / अन्तर्धा / 'स्त्रीविषयवर्ण-' इति प्राप्ते / छाया / माया / जाया / ‘यान्तस्यान्त्यात्पूर्वम्' इत्यायुदात्तत्वे प्राप्ते। 'स्त्री' इति किम् / बाह्यम् / यजन्तत्वादाद्युदात्तत्वम् / 'विषयग्रहणम्' किम् / इभ्या / क्षत्रिया / 'यतोऽनावः' (सू 3701) इत्यायुदात्त इभ्यशब्दः / क्षत्रियशब्दस्तु ‘यान्तस्यान्त्यात्पूर्वम्' इति मध्योदात्तः / 6 'खान्तस्याश्मादेः' / नखम् / उखा / सुखम् / दुःखम् / नखस्य ‘स्वाङ्गशिटाम्-' इत्याद्युदात्तत्वे प्राप्ते / उखा नाम भाण्डविशेषः। तस्य कृत्रिमत्वात् 'खय्युवर्ण कृत्रिमाख्या चेत्' इत्युवर्णस्योदात्तत्वे प्राप्ते / सुखदुःखयोः 'नविषयस्य-' इति प्राप्ते / ‘अश्मादेः किम् / शिखा / मुखम् / मुखस्य 'स्वाङ्गशिटाम्-' इति 'नविषयस्य' इति वा आद्युदात्तत्वम् / शिखायास्तु 'शीङः खो निद्रस्वश्च' इत्युणादिषु नित्त्वोक्तेरन्तरङ्गत्वाटापः प्रागेव 'स्वाङ्गशिटाम्-' इति वा बोध्यम् // 7. 'बंहिष्टवत्सरतिशत्थान्तानाम्' / एषामन्त उदात्तः स्यात् / अतिशयेन वहुलो बंहिष्ठः / नित्त्वादाद्युदात्तत्वे प्राप्ते / 'बहिष्रश्वः सुवृता रथेन' / 'यद्वंहिष्ठं नातिविधे' इत्यादौ व्यत्ययादाद्युदात्तः। संवत्सरः / अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / सप्ततिः। अशीतिः / ‘लघावन्ते-' इति प्राप्ते / चत्वारिंशत् / इहापि प्राग्वत् / 'अभ्यूर्वाना प्रभृथस्यायोः' / अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / थाधादिसूत्रेण गतार्थमेतत् // 8. 'दक्षिणस्य साधौ' / अन्त उदात्तः स्यात् / साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया 'स्वाङ्गशिटाम्-' इत्याद्युदात्तः / अर्थान्तरे तु 'लघावन्ते-' इति गुरुरुदात्तः। ‘दक्षिण: सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः // 9. 'स्वाङ्गाख्यायामादिर्वा' / इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः। दक्षिणो बाहुः / 'आख्याग्रहणम्' किम् / प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति // 10. 'छन्दसि च' / अस्वाङ्गार्थमिदम् / HHHHHHHHHHI THEHTHHTH For Private And Personal Use Only

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803