Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 751
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 749 गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते / 'प्रतिबन्धि' किम् / मूत्रकृच्छ्रम् // 3741 / पदेऽपदेशे (6-2-7) / व्याजवाचिनि पदशब्द उत्तरपदं पूर्वपदं प्रकृत्या तत्पुरुष / मूत्रपदेन प्रस्थितः / उच्चारपदेन / मूत्रशब्दो घअन्तः उच्चारशब्दो घअन्तः 'थाथ-' (सू 3878) आदिस्वरेणान्तोदात्तः / ‘अपदेशे' किम् / विष्णुपदम् // 3742 / निवाते वातत्राणे (6-2-8) / निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या / कुटीनिवातम् / कुड्यनिवातम् / कुटीशब्दो गौरादिङीषन्तः / कुड्यशब्दो ड्यगन्तः / यगन्त इत्यन्ये / 'वातत्राण' किम् / राजनिवाते वसति / निवातशब्दोऽयं रूढः पार्श्वे // 3743 / शारदेऽनातवे (6-2-9) / ऋतौ भवमार्तवम् / तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् / रज्जुशारदमुदकम् / शारदशब्दो नूतनार्थः / तस्यास्वपदविग्रहः / 'रज्ज्वोः सद्य उद्धतम्' / रज्जुशब्द: 'सृजेरसुन् च ' (उणा 15) इत्याद्युदात्तो व्युत्पादितः / 'अनातवे' किम् / उत्तमशारदम् // 3744 / अध्वर्युकषाययोर्जातौ (6-2-10) / एतयोः परतो जातिवाचिनि तत्पुरुषं पूर्वपदं प्रकृतिस्वरम् / कटाध्वर्युः / दौवारिककषायम् / कठशब्दः पचाद्यजन्तः / तस्मात् ‘-वैशम्पायनान्तेवासिभ्यश्च' (सू 1484) इति णिनेः 'कठचरकाल्लुक्' (सू 1487) / इति लुक् / द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः / 'जातो' किम् / परमाध्वर्युः // 3745 / सदृशप्रतिरूपयोः सादृश्ये (6-2-11) / अनयोः पूर्व प्रकृत्या / पितृसदृशः / पितृप्रतिरूपः / ‘सादृश्ये ' किम् / परमसदृशः / समासार्थोऽत्र पूज्यमानता न सादृश्यम् // 3746 / द्विगौ प्रमाणे (6.2 12) / द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् / प्राच्यसप्तसमः / सप्त समाः प्रमाणमस्य / 'प्रमाणे लो द्विगोर्नित्यम्' (वा 3128-29) इति मात्रचो लुक् / प्राच्यशब्द आधुदात्तः / प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः / 'द्विगौ' किम् / व्रीहिप्रस्थः / 'प्रमाणे' किम् / परमसप्तसमम् // 3747 / गन्तव्यपण्यं वाणिजे / (6-2.13) / वाणिजशब्दे परे तत्पुरुष गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् / मद्रवाणिजः / गोवाणिजः / सप्तमीसमासः / मद्रशब्दो रक्प्रत्ययान्तः। 'गन्तव्य-' इति किम् / परमवाणिजः // 3748 / मात्रोपज्ञोपक्रमच्छाये नसके (6 2-14) / मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुष तथा / भिक्षायाम्तुल्यप्रमाणं भिक्षामात्रम् / भिक्षाशब्दो 'गुरोश्च हल:' (सू 3280) इत्यप्रत्ययान्तः / पाणिन्युपज्ञम् / पाणिनिशब्द आद्युदात्तः / नन्दोपक्रमम् / नन्दशब्दः पचाद्यजन्तः / इषुच्छायम् / इषुशब्द आद्यदात्तो नित्वात् / 'नपुंसके' किम् / कुड्यच्छाया // 3749 / सुखप्रिययोहिते (6-2. 15) / एतयोः परयोहितवाचिनि तत्पुरुषे तथा / गमनप्रियम् / गमनसुखम् / गमनशब्दो लित्स्वरेण आद्यदात्तः। 'हिते' किम् / परमसुखम् // 3750 / प्रीतौ च (6-2-16) / प्रीती गम्यायां प्रागुक्तम् / ब्राह्मणसुखं पायसम् / छात्तृप्रियोऽनध्यायः / ब्राह्मणच्छात्तूशब्दौ प्रत्ययस्वरेणान्तोदात्तौ / 'प्रीतौ' किम् / राजसुखम् // 3751 / स्वं स्वामिनि (6-2-17) / स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा / गोस्वामी / 'स्वम्' किम् / परमस्वामी // 3752 / पत्यावैश्वर्ये (6-2 18) / 'दमूना गृहपतिर्दमे' // 3753 / न भूवाक्चिद्दिधिषु (6-2-19) / पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या / भुवः पतिर्भूपतिः / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803