Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 19
________________ १४ आराधनासारः सौधर्मशानकल्पवासिनीनां च क्षायिकं नास्ति तेषां पर्याप्तकानामौपशमिकं क्षायोपशमिकं चास्ति । अस्य साधनमपि कथ्यते । साधनं द्विविधमाभ्यंतरं बाह्यं च । आभ्यंतरं दर्शनमोहस्योपशमः क्षयःक्षयोपशमो वा । बाह्यं नारकाणां प्राक् चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिद्वेदनाभिभवः, चतुर्थीमारभ्य आसप्तम्या नारकाणां जातिस्मरणं वेदनाभिभवश्च । तिरश्चां केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिज्जिनविंबदर्शनं । मनुष्याणामपि तथैव । देवानामपि केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिन्जिनमहिमदर्शनं केषांचिद्देवर्धिदर्शनं । एवं प्रागानतात् । आनतप्राणतारणाच्युतदेवानां देवर्धिदर्शनं मुक्त्वा अन्यत्रितयमप्यस्ति । नवौवेयकवासिनां केषांचिजातिस्मरणं केषांचिद्धर्मश्रवण । अनुदिशानुत्तरविमानवासिनामियं कल्पना न भवति प्रागेव गृहीतसम्यक्त्वानां तत्रोत्पत्तेः । अस्याधिकरणमपि कथ्यते ! अधिकरणं द्विविधं आभ्यंतरं बाह्यं च । आभ्यंतरं स्वामिसंबंधार्ह एवात्मा 'विवक्षातः कारकप्रवृत्तेः' बाह्यं लोकनाडी। सा कियती । एकरज्जुविष्कंभा चतुर्दशरज्ज्वायामा । स्थितिरप्यस्य कथ्यते । औपशमिकस्य जघन्योत्कृष्टा चांतहूिर्तिकी । क्षायिकस्य संसारिणः जघन्यांतर्मोहूर्तिकी उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सांतर्मुहूर्ताष्टवर्षहीनपूर्वकोटद्वियाधिकानि । मुक्तस्य सादिरप्यपर्यव. साना । क्षायोपशमिकस्य जघन्यांतमौहूर्तिकी उत्कृष्टा षट्षष्ठिसागरोपमाणि ॥ विधानमप्यस्य । विधानं सामान्यादकं सम्यग्दर्शनं द्वितयं निसर्गजाधिगमजभेदात् । त्रितयं औपशमिकक्षायिकक्षायोपशमिकभेदादेवं संख्येया विकल्पा असंख्येया अनंताश्च भवंति श्रद्धातृश्रद्धातव्यभेदात् । इत्युक्तलक्षणा नानाविधाः सूत्रोक्तयः संति अत्र तूपदेशो मुख्यवृत्त्या मनुव्यगतौ कथ्यते तद्भवमुक्तिसाधनत्वात् । मूढत्रयादिपंचविंशतिमलपरिहारेण हयस्य त्यागेनोपादेयस्योपादानेन जीवादितत्त्वश्रद्धानं विधीयते यत्र सा व्यवहारसम्यग्दर्शनाराधना सा च क्षपकेणाप्रमत्तेनाराधनीया भवतीति तात्पर्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134