Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
आराधनासारः
णाणमयभावणाए ज्ञानमयभावनया ज्ञानेन निवृत्ता यासौ भावना वासना सा ज्ञानमयभावना तया ज्ञानमयभावनया भावयचित्तेहिं भावितचित्तैर्वासितांतरंगैः पुरिससीहोहिं पुरुषसिंहैः- पुरुषप्रधानैः । अत्र प्रशस्यवाची पुरुषपदस्यांते सिंहशब्दः अमरकोशाद्यभिधानेषूक्तवान् । अचेयणादीय अचेतनादिका चउभेया चतुर्भेदाश्चतुःप्रकाराः महोवसग्गा महोपसर्गाः महांतश्चते उपसर्गाश्च महोपसर्गाः । महांतश्चेति विशेषणे कृते कोर्थः । तैरपि पुरुषसिंहर्मनागपि मनोविक्षेपरहितैः सोढुं शक्या नान्यैः सामान्यैः कानरत्वेनासहमानत्वादित्यर्थः सहिया सोढाः 'षह मर्षणे' क्षमिता योगधैर्याविर्भावहेतुभूतायां बाधायां सत्यामपि मनसि मनसा वा येषां सहनं न सर्वो भवतीति किंतु निर्जराथै तेषामपि सहनमेवेत्यर्थः ॥ ४८॥
ननु चेतनादयश्चतुर्भेदा उपसर्गा निर्दिष्टास्ते के कैश्चते सोढा इति प्रश्ने कृते गाथापूर्वार्धनाचेतनाकृतोपसर्गा अपरार्धेन तिर्यकृतश्च अचेतनकृतोपसर्गसोढारं शिवभूतिनामादिं कृत्वा प्रथयति;सिवभूइणा विसहिओ महोवसग्गो हु चेयणारहिओ। सुकुमालकोसलेहि य तिरियंचकओ महाभीमो ॥४९॥ शिवभतिना विसोढो महोपसर्गः खलु चेतनारहितः । सुकुमालकोसलाभ्यां च तिर्यककृतो महाभीमः ॥ ४९ ॥ विसहिओ विसोढः विशेषेण चिदानन्दोत्थपरमसुखामृतरसास्वादबलेन षोढः । कोसौ । महोवसग्गो महोपसर्गः महांश्चासौ उपसर्गश्च महोपसर्गः छेदनभेदनमारणादिरूपः । केन विषोढः । सिवभूइणा शिवभूतिना। शिवभूति म कश्चिद्राजकुमारस्तेन शिवभूतिना । कीदृशः उपसर्गः । चेयणारहिओ चेतनारहितः अचेतनैरग्निजलपाषाणशिलापातादिभिः कृतत्वादुपसर्गोप्यचेतनः शिवभूतिना अचेतनमहोपसर्गा यथा सोढास्तत्कथामाख्याति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134