Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 76
________________ टीकासहितः। ७१ इंदियवाहेहिं इंद्रियव्याधैः इंद्रियाण्येव व्याधा आखेटिकाः परनिमितसुखरूपपलाभिलाषित्वेन स्वव्यापारे प्रवर्तमानत्वात् । तैरािंद्रयव्याधैः हया हता घातिताः शल्यगोचरीकृताः सरपीडापीडियंगचलचित्ता शरपीडापीडितांगचलचित्ताः । शरो बाणः । बाणस्थानीयोत्र क इति चेत् । शरशब्देन स्मरो लभ्यते प्राकृतलक्षणदर्शनत्वात् स्मर एव शरः । शरशब्द एक एवेति चेत् नास्ति दोषः । एकस्मिन्नेव शब्देऽपि मुख्योपचारयोरुभयार्थयोः प्राप्यमाणत्वात् । न भवेदिति चेत् तदा चिंत्यमेतत् दूष्यं वैदुष्यैः । स्मररूपशरस्य पीडा बाधा तया पीडितांगे बांधितांगे सति चलचित्ता लोलमनसः जणहरिणा जनहरिणाः जना एव हरिणा मृगाः कत्थवि कुत्रापि रइ रतिं ण कुणंति न कुर्वति । कस्मिन्नपि स्थाने स्वगततत्त्वे परगततत्त्वे वा शास्त्रश्रवणे देवपूजायां आर्तरौद्रपरिहारनिमित्तमन्यस्मिन्नपि शुभावलंबने वा न रज्यंते न स्थितिं कुर्वति स्थातुमपि न वांछंतीत्यर्थः । कस्मात् । अनादिकर्मबंधवशादनंतवीर्यावरणेनात्मनोऽधैर्यप्रादुर्भावात् । तदा ते किं कुर्वतीति प्रश्ने। विसयवणं जंति विषयवनं यांति विषया एव वनं विषयवनं यांति गच्छंति । यथा व्याधेन बाणेन बाधिताः चलचित्ता भूत्वा कुत्रापि रतिमकुर्वाणा मृगा धनमाश्रयति तथेंद्रियैरमनस्कतां नीता स्मरपीडनेन चलचेतसो जाता जनाः कुत्रापि रतिं न कुर्वति । तर्हि किं कुर्वति । स्रक्चंदनवनितादीन विषयानेव सेवंते येषु सेवितेषु तदलाभे सति इहैव दारुणं दुःखं भवति, परभवे नरकतिर्यग्योन्यादेर्भूरि दुःखान्यनुभवंति । एवं ज्ञात्वेंद्रियविजयं विधाय परमात्मध्यानविधानं विधीयतामिति तात्पर्यम् ॥ ५३॥ ननु समस्तसंन्यस्तत्वेन प्रतिज्ञानिष्ठानां यदि विषयाभिलाषः स्यान तु सेवने प्रवृत्तिस्तदा किंचिद्रूपं प्रादुर्भवतीति वदंतं प्रत्याह;सव्वं चायं काऊ विसए अहिलससि गहियसण्णासे । जइ तो सव्वं अहलं दंसण णाणं तवं कुणसि ॥ ५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134