Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 95
________________ ९० कुसुमनिभः आकाशकुसुमतुल्यः स मिथ्यारूपो भवतीत्यर्थः । ततोऽमंदचिदानंदोत्थनिरूपम सुखामृतरसं पिपासुना विशुद्धे स्वात्मनि सावधानीभूय स्थातव्यं इति मनःसंयमनम् ॥ ७६ ॥ आराधना सारः शून्यध्यानप्रविष्टः क्षपकः कीदृगवस्थो भवतीत्याह ; सुण्णज्झाणपट्ठो जोई ससहावसुक्खसंपण्णो । परमाणंदे थक्को भरियावत्थो फुडं हवइ ॥ ७७ ॥ शून्यध्यानप्रविष्टो योगी स्वसद्भावसौख्यसंपन्नः । परमानंदे स्थितो भृतावस्थः स्फुटं भवति || ७७ || जोई योगी क्षपको भृतावस्थो भवति । कीदृशो योगी । सुण्णज्झाणपइडो शून्यध्यानप्रविष्टः शून्यं च ध्यानं च शून्यध्यानं निर्विकल्पसमाधिलक्षणं तत्र प्रविष्टः स्थितः शून्यध्यानप्रविष्टः निर्विकल्पसमाध्याविष्टः । यत्र च - जायंते विरसा रसा विघटते गोष्टी कथाकौतुकं शीर्यते विषयास्तथा विरमति प्रीतिः शरीरेपि च । जोषं वागपि धारयत्यविरतानंदात्मनः स्वात्मनश्चिंतायामपि यातुमिच्छति मनो दोषैः समं पंचताम् ॥ तच्छून्यध्यानमिह गृह्यते । पुनः कीदृशो योगी । ससहावसुक्खसंपण्णो स्वसद्भावसौख्यसंपन्नः स्वस्य परमात्मनो यः सद्भावोऽनंतज्ञानपरमानंदादिलक्षणः स्वसद्भावस्तदुत्थं यत्सौख्यं स्वसद्भावसौख्यं तेन संपन्नः संयुक्तः स्वसद्भावसौख्यसंपन्नः । कीदृशो योगी । परमाणंदे थक्को परमानंदे स्थितः परमश्चासावानंदश्च परमानंदस्तस्मिन् परमानंदे स्थितः विशुद्धतरपरब्रह्माराधनोद्भूतस्फीतानंदामृतरसतृप्त इत्यर्थः । अत एव क्षपकः भरियावत्थो फुडं हवइ पूर्णकलशवत् भृतावस्थः अविनश्वरनिरुपमानं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134