Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 110
________________ टीकासाहितः। १०५ तोत्रवेदनाभिभूतः क्षपकः खल्वनयोक्त्या प्रोत्साह्यत इति शिक्षा प्रयच्छन्नाह;धण्णोसि तुमं सुज्जस लहिऊणं माणसं भवं सारं । कयसंजमेण लद्धं सण्णासे उत्तम मरणं ॥ ९२॥ धन्योसि त्वं सद्यशः लब्धा मानुषं भवं सारम् । कृतसंयमेन लब्धं संन्यासे उत्तम मरणं ॥ ९२ ॥ भो सुज्जस शोभनं राकाशशांकवलं यशो यस्य स सद्यशाः तस्य संबोधनं क्रियते भो सद्यशः भो क्षपक भो पुरुषोत्तम त्वं धन्योसि कृतपु. ण्योसि कृतकृत्योसि येन त्वया संन्यासे संन्यसनं संन्यासस्तस्मिन् संन्यासे सैन्यासमाश्रित्य उत्तम मरणं उत्तमानां पंचविधमरणानामन्यतमं यत्त्वया लब्धं प्राप्तं । किं कृत्वा पूर्व । लहिऊणं माणुसं भवं सारं मानुष्यं भवं तुमवांतरं सारं समस्तभवांतरेषु सारभूतं लब्ध्वा संप्राप्य यो नृत्वं दुःप्राप्यं प्राप्य गृहिधर्ममाचरति स धन्यः । यः पुनः स्वात्माराधनपूर्वकं तपस्तपति तस्य पुनः किं वाच्यम् । यदुक्तं लब्ध्वा जन्म कुले शुचौ वरवपुर्बुद्धा श्रुतं पुण्यतो वैराग्यं च करोति यः शुचितपो लोके स एकः कृती । तेनैवोज्झितगौरवेण यदि वा ध्यानं समापीयते प्रासादे कलशस्तदा मणिमहेमैस्तदारोपितः ॥ कथंभूतेन त्वया । कयसंजमेण संयमनं संयमः कृतः संयम इंद्रियमनःसंयमनं येन स कृतसंयमनस्तेन कृतसंयमनेन संयमं प्रतिपाल्य यत्त्वमेतादृशं संन्यासोत्तममरणमाप्तवानसि तत्त्वं धन्यतमोसि ॥ ९२ ॥ मनःकायोद्भवं दुःख क्षपकस्यावश्यं जायत इति विवृणोति;किसिए तणुसंघाए चिट्ठारहियस्स विगयधामस्स । खवयस्स हवइ दुक्खं तक्काले कायमणहूयं ॥ ९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134