Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 116
________________ टीकासहितः। मात्मान स्फूजेति ॥ प्रतिपद्यते स्वीकरोति । कं । ससहावं स्वस्वभावं आत्मस्वभावम् । यदुक्तम् इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्रं बलात् .. तन्मूलां बहुभावसंततिमिमामुद्धर्तुकामः समम् । आत्मानं समुपैति निर्भरवहन् पूर्णौकसं विद्युतं . येनोन्मूलितबंध एव भगवानात्मात्मनि स्फूर्जति॥ आत्मस्वभावमास्थितः क्षपकः कीदृशो भवतीत्याह । हवइ सुही णाणसुक्खण भवति । कीदृशो भवति । सुखी अनिर्वचनीयसुखसंपन्नः । केन । कृत्वा । ज्ञानसौख्येन भेदज्ञानजनितविविधतराह्लादेन ॥ ९८ ॥... दुर्धरदुःखानि तृणाय मन्यमानः स्वात्मानमेवाराधयेति शिक्षा ददनाह;भित्तण रायदोसे छित्तूण य विसयसंभवे सुक्खे । अगणंतो तणुदुक्खं झायस्स णिजप्पयं खवया ॥९९॥ भित्वा रागद्वेषौ छित्वा च विषयसंभवानि सुखानि । अगणयंस्तनुदुःखं ध्यायस्व निजात्मानं क्षपक ॥ ९९ ॥ खवया भो क्षपक झायस्स ध्यायस्व आराधय। कं । णिजप्पयं निजात्मानं चैतन्यस्वभावं यन्नाम्नैवायमात्मा सुखी भवति । यदुक्तम्-- नाममात्रकथया परात्मनो भूरिजन्मकृतपापसंक्षयः । बोधवृत्तरुचयस्तु तद्गताः कुर्वते हि जगतां पतिं नरम् ॥ किं कृत्वा । भित्तूण रायदोसे भित्वा रागद्वेषौ रागद्वेषविरहित एव स्वात्मानमनुभवति । यतः उक्तम् रायद्दोसादिहया डहुलिज्जइ णेव जस्स मणसलिलं । सो णियतचं पिच्छइ णउं पिच्छइ तस्स विवरीओ ॥ पुनः किं विधाय । छित्तण य विसयसंभवे सुखे विषयेभ्यः संभव उत्पत्तिर्येषां तानि विषयसंभवसुखानि छित्वा मूलतः समुन्मूल्य । यदुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134