Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 120
________________ टीकासहितः। ११५ यदि व्याध्यादिकं कायस्य तर्हि आत्मा कोदृश इत्याह;सुक्खमओ अहमेको सुद्धप्पा णाणदंसणसमग्गो। अण्णे जे परभावा ते सव्वे कम्मणा जणिया ॥ १०३॥ सुखमयोऽहमेकः शुद्धात्मा ज्ञानदर्शनसमग्रः । अन्ये ये परभावास्ते सर्वे कर्मणा जनिताः ॥ १०३ ॥ सुक्खमओ इत्यादि । अनवरतस्यंदिसुंदरानंदमुद्रितामंदसुखेन निर्वृत्तः सुखमयः । अहं शरीराधिष्ठितोऽपि आत्मा शुद्धनयापेक्षया परमात्मा । यदुक्तम् यः परात्मा स एवाहं योहं स परमस्ततः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः ॥. तथा एक्को असहायः रागद्वेषादिद्वितीयरहितः सुद्धप्पा शुद्धात्मा शुद्धश्चासौ आत्मा च शुद्धात्मा गाणदंसणसमग्गो ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां समग्रः दर्शनज्ञानसमयः दृशिज्ञप्तिस्वभावः नियतिवृत्ति. रूपः । एवंभूतात् स्वभावात् येन्ये ते परभावाः इत्याह अण्णे जे परभावा टंकोत्कीर्णचित्स्वभावादात्मनः सकाशात् येऽन्ये रागद्वेषमोहादयः आधिव्याधिमरणादयः ते सव्वे ते सर्वे परभावाः पुद्गलभावाः । किं विशिष्टाः । कम्मणो जणिया कर्मणः सकाशादुत्पन्नाः । अथवा । कर्मणा करणभूतेन जनिता उत्पादिताः । ततोऽहमात्मा केवलं सुखस्वभावसंपन्नो विशुद्धज्ञानदर्शनस्वभावोस्मीति ध्यानयोगमारूढस्य क्षपकस्य कर्मनिर्जरैव । यदुक्तं परीषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायते ध्यानयोगेन कर्मणामाशु निर्जरा ॥ १०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134